________________
१५० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे ते च हस्ति-वल्गुली-चर्मजलूकादयः । जरायुवेष्टिता जायन्त इति जरायुजाः पूर्ववत् डप्रत्ययः, गो-महिष्यजाविक-मनुष्यादयः । रसाज्जाता रसजाः, तक्राऽऽरनाल-दधि-तीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति । संस्वेदाज्जाताः
संस्वेदजाः, मत्कुण-यूका-शतपदिकादयः । सम्मूर्छनाज्जाताः सम्मूर्छनजाः 5 शलभ-पिपीलिका-मक्षिका-ऽऽशालिकादयः । उद्भेदनम् उद्भित्, ततो जाता उद्भिजाः, पृषोदरादित्वाद् दलोपः, पतङ्ग-खजरीटक-पारिप्लवादयः । उपपाताज्जाता उपपातजाः अथवा उपपाते भवा औपपातिकाः देवा नारकाश्च । एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते । एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तम्-'सम्मूर्छन-गर्भ-उपपाताज्जन्म' [तत्त्वार्थ० २। २२] । रसज10 संस्वेदज-उद्भिजानां सम्मूर्छनजान्तःपातित्वात्, अण्डज-पोतज-जरायुजानां
गर्भजान्तःपातित्वात्, देव-नारकाणामौपपातिकान्तःपातित्वात् इति त्रिविधं जन्मेति । इह चाष्टविधं सोत्तरभेदत्वादिति । एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसा जन्तवः संसारिणो निपतन्ति, नैतद्व्यतिरेके णान्ये सन्ति, एते
चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बाला-ऽङ्गनादिजनप्रत्यक्षप्रमाण15 समधिगम्याः । 'सन्ति च' अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते त्रसानाम्, न कदाचिदेतैविरहितः संसार: सम्भवतीति । एतदेव दर्शयति
एस संसारे त्ति पवुच्चइ त्ति । एषः अण्डजादिप्राणिकलापः संसार: प्रोच्यते, नातोऽन्यस्त्रसानामुत्पत्तिप्रकारोऽस्तीत्युक्तं भवति । कस्य पुनरत्राष्ट
विधभूतग्रामे उत्पत्तिर्भवति ? इत्याह20 मंदस्सावियाणओ । मन्दो द्विधा- द्रव्य-भावभेदात् । तत्र द्रव्यमन्दो
१. ०जलुका० ङ । २. पूर्वप्रत्ययः ख, पूर्ववत् प्रत्ययः च । ३. ०जाच्चि( चित्रक-मनु० घ । ४. "पायुः इति अविधिष्ठानिका' जै०वि०प० । ५. संस्वेदनाज्जाता: संस्वेदनजाः ख । ६. "आसाली (आशालिका ?) इति चक्रवर्तिकटकाधस्ताद् द्वादशयोजनप्रमाणा' जै०वि०प०, एते उर:परिसर्पतिर्यग्जीवविशेषा ज्ञेयाः । ७. तलोपः ग ङ। ८. ०खञ्जरीट-परि० ग ङ च । ९. ०न-जन्म-उप० ख । १०. सर्वेऽपि त्र० ख । ११. त्रसजन्तवः कप्रतेविना । १२. एतदपि दर्श० क ग । १३. संसारो ग। १४. त्ति इति क-गप्रत्योर्नास्ति ।