________________
१४८
5
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे मंसस्स केइ अट्ठा केई चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंताणट्ठा वहिज्जंति ॥१६१॥ केई वहति अट्ठा केइ अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंधंति वहंति मारेंति ॥१६२॥ दारं ।।
मंसस्सेत्यादि । केई इत्यादि । मांसार्थं मृग-शूकरादयो वध्यन्ते । चर्मार्थं चित्रकादयः । रोमार्थं मूषिकादयः । पिच्छार्थं मयूर-गृद्ध-कपिञ्चुरुडुकादयः । पुच्छार्थं चमर्यादयः । दन्तार्थं वारण-वराहादयः । वध्यन्त इति सर्वत्र सम्बध्यते
॥१६१॥ - तत्र केचन पूर्वोक्तं प्रयोजनमुद्दिश्य, केचिच्च प्रयोजनमन्तरेणापि क्रीडया, 10 तथाऽपरे प्रसङ्गदोषाद् मृगलक्षक्षिप्तेषु-लेलुकादिना तदन्तरालव्यवस्थिता अनेके
कपोत-कपिञ्जल-शुक-सारिकादयो हन्यन्ते । तथा कर्म कृष्याद्यनेकप्रकारं तस्य प्रसङ्गः अनुष्ठानम्, तत्र प्रसक्ताः तन्निष्ठाः सन्त-स्वसायिकाननेकान् बध्नन्ति रज्ज्चादिना, नन्ति कश-लकुटादिभि-स्ताडयन्ति, मारयन्ति प्राणैर्वियोजयन्तीति
॥१६२॥ एवं विधानादिद्वारकलापमुपवर्ण्य सकलनियुक्त्यर्थोपसंहारायाऽऽह15 सेसाई दाराई ताई जाइं हवंति पुढवीए ।
एवं तसंकायम्मी निज्जुत्ती कित्तिया ऐसा ॥१६३॥ छ। फा॥
सेसाइमित्यादि । उक्तव्यतिरिक्तानि शेषाणि द्वाराणि तान्येवं यानि पृथिवीस्वरूपसमधिगमे निरूपितानि । अत एवमशेषद्वाराभिधानात् त्रसकाये
१. पिच्छाणं ख ठ । २. पुंच्छाणं ख । ३. हणंति झ ब । ४. बध्यन्ते घ ङ च । ५. मूषकादयः ख । ६. पुंच्छार्थं ख । ७. बध्यन्त ग घ ङ। ८. सम्बध्यत इति । ख च । ९. ०श्य मन्ति, केचित् पुनः प्रयो० ख च, ०श्य हन्यन्ते, केचिच्च ग घ ङ । १०. ०या जन्ति, तथा० क-घपुस्तके विना । ११. ०ताऽनेककपोत० । १२. ०कायिकान् बहून् बध्नन्ति ख ग च । १३. तेवं ख । १४. एसा ॥१६३॥ छट्ठओ तसकायउद्देसओ छ।। झ ञ, एसा ॥१६३॥ अध्य०१ उद्दे० ६ ।। ठ । १५. सेसा० इत्यादि ख-चपुस्तके ऋते । १६. ०व वाच्यानि यानि ख च ।