SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १४७ प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । षष्ठ उद्देशकः निक्खम-पवेसकालो समयादी एत्थ आवलियभागो । अंतोमुहुत्तऽविरहो उयहिसहस्साहिया दोण्णि ॥१५९॥ दारं ॥ निक्खमेत्यादि । जघन्येन अविरहिता सन्तता त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानामेकं समयं द्वौ त्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽसङ्ख्येयभागमात्रं कालं सन्ततमेव निष्क्रमः प्रवेशो वा । एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथा- 5 पश्चिमार्धेन-अविरह: सातत्येनावस्थानम्, एकजीवो हि त्रसभावेन जघन्यतोऽन्तमुहूर्तमासित्वा पुनः पृथिव्यायेकेन्द्रियेषूत्पद्यते, प्रकर्षणाधिकं सागरोपमसहस्रद्वयं त्रसभावेनावतिष्ठते सन्ततमिति ॥१५९।। उक्तं प्रमाणम् । साम्प्रतमुपभोग-शस्त्रवेदनाद्वारत्रयप्रतिपादनायाह मंसादीपरिभोगो सत्थं सत्थादियं अणेगविहं । दारं । 10 सारीर माणसा वेयणा य दुविहा बहुविहा य ॥१६०॥ दारं ।। मंसा इत्यादि । मांस-चर्म-केश-रोम-नख-पिच्छ-दन्त-स्नाय्व-ऽस्थिविषाणादिभिस्त्रसकायसम्बन्धिभिरुपभोगो भवति ।। शस्त्रं पुनः शस्त्रादिकम् इति, शस्त्रं खड्ग-तोमर-क्षुरिकादि तदादिर्यस्य जला-ऽनलादेस्तत् शस्त्रादिकम्, अनेकविधं स्वकाय-परकाय- 15 उभय-द्रव्य-भावभेदभिन्नमनेकप्रकारं त्रसकायस्येति । वेदना चात्र प्रसङ्गेनोच्यते-सा च शरीरोत्था मन:समुत्था च द्विविधा यथासम्भवम् । तत्राद्या शल्य-शलाकादिभेदजनिता । इतरा प्रियविप्रयोगाऽप्रियसम्प्रयोगादिकृता । बहुविधा च ज्वरा-ऽतीसार-कास-श्वास-भगन्दरशिरोरोग-शूल-गुंदकीलकादिसमुत्था तीव्रति ॥१६०॥ पुनरप्युपभोगप्रपञ्चाभि- 20 धित्सयाऽऽह १. निग्गम० क छ । २. ०स्साहिए कतिमृते । ३. ०मात्रकालं घ ङ। ४. ०करणेन वाऽविरह० ख । ५. उक्तं परिमाणद्वारम् । सा० ख च, उक्तं प्रमाणद्वारम् । सा० ग । ६. सत्थातियं ञ, “त्रिशूलादि'' ठटिप्पणी । ७. ०पिच्छ० क ग । ८. ०स्त्रसजीवसम्बन्धि० ख च, ०स्त्रसकायजीवसम्बन्धि० ग । ९. शस्त्र्यादिकम् ख । १०. शस्त्रं इति ख-घप्रत्योरेव । ११. शरीरसमुत्था कप्रत्या विना । १२. "गुदकीलिका हरिस' स०वि०प० ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy