________________
१४६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
तथौघसंज्ञा लोकसंज्ञा च । उच्छ्वास - नि:श्वासौ प्राणापानौ । कषायाः कषः संसारस्तस्य आयाः क्रोधादयः अनन्तानुबन्ध्यादिभेदात् षोडशविधाः । एतानि गाथाद्वयोपन्यस्तानि द्वीन्द्रियादीनां लक्षणानि यथासम्भवमवगन्तव्यानीति नैवंविधलक्षणकलाप-समन्वयो घटादिष्वस्ति, तस्मात् तत्राचैतन्यमध्यवस्यन्ति 5 विद्वांसः ॥ १५६ - १५७॥ अभिहितलक्षणकलापोपसञ्जिहीर्षया तथा परिमाणप्रतिपादनार्थं च गाथामाह
लक्खणमेयं चेव उ पयरस्स असंखभागमैत्ता ते । निक्खमणे य पवेसे एगाईया वि एमेव ॥ १५८ ॥
लक्खणमित्यादि । तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं 10 लिङ्गमेतावदेव दर्शनादि परिपूर्णम्, नातोऽन्यदधिकमस्तीति ।
परिमाणं पुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणास्त्रसकायपर्याप्तकाः । एते च बादरतेजस्कायपर्याप्तकेभ्योऽसङ्ख्येयगुणाः । त्रसकायपर्याप्तकेभ्यस्त्रसकार्यिका अपर्याप्तका असङ्ख्येयगुणाः । तथा कालतः प्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा 15 जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा एवेति, तथा चागमःपँडुप्पन्नतसकाइया केवइकालस्स निल्लेवा सिया ? गोयमा ! जहन्नपए सागरोवमसयसहस्सपुंहत्तस्स, उक्कोसपदे वि सागरोवमसयसहरसर्पुहत्तस्स । [ ]
उद्वर्तनोपपातौ गाथाशकलेनाभिदधाति - निष्क्रमणम् उद्वर्तनं प्रवेश: उपपातः जघन्येनैको द्वौ त्रयो वा, उत्कृष्टतश्च एवमेव इति प्रतरस्या20 सङ्ख्येयभागवर्तिप्रदेशपरिमाणा एवेत्यर्थः ॥ १५८ ॥ साम्प्रतमविरहितप्रवेश
निर्गमाभ्यां परिमाणविशेषमाह
१. ०ति । न चैवंविध० क-गप्रती विना । २. लक्खणमेवं ठ । ३. ०मेत्तातो क ठ ०मेत्ता उ ख ज । ४. नातोऽधिक० क । ५." संवर्तितलोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणास्त्रस[ काय ] पर्याप्ताः एतच्च मानं स्वावगाहनया द्रष्टव्यम्, अन्यथा विरोधप्रसङ्गात् ।" स०वि०प०। ६. ०काऽपर्या ० ख च । ७. पडुप्पन्ना तस० घ ङ । ८. ० पुहुत्तस्स घ । ९. विशि (सि) या सागरो क, वि य सागरो० घ । १०. ०पुहुत्तस्स घ । ११. उत्कृष्टतस्तु कप्रतेर्विना ।