________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । षष्ठ उद्देशकः
१४५ एगा कोडाकोडी सत्ताणउई च सयसहस्साई ।। पंचासं च सहस्सा कुलकोडीणं मुणेयव्वा ॥ [ ]
अङ्कतः १९७५००००००००००० सकलकुलसङ्ग्रहोऽयं बोद्धव्य इति ॥१५५॥ उक्ता प्ररूपणा । तदनन्तरं लक्षणद्वारमाह
दंसण णाण चरित्ते चरिताऽचरिते य दाण लाभे य । उवभोग भोग वीरियं इंदियविसए य लद्धी अ ॥१५६॥ उवओग जोग अज्झवसाणे वीसुं च लद्धिओ उदया ।
अट्ठविहोदय लेसा सण्णुस्सासे कसाए य ॥१५७॥
दंसणेत्यादि, उवओगेत्यादि । दर्शनं सामान्योपलब्धिरूपं चक्षुरचक्षुरवधि-केवलाख्यम् । मत्यादीनि ज्ञानानि स्व-परपरिच्छेदिनो जीवस्य 10 परिणामा ज्ञानावरणविगमव्यक्तास्तत्त्वार्थपरिच्छेदाः । सामायिक-छेदोपस्थाप्यपरिहार-विशुद्धि-सूक्ष्मसम्पराय-यथाख्यातानि चारित्रम् । चारित्राचारित्रं देशविरति: स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकाणाम् । तथा दान-लाभ-भोग-उपभोगवीर्य-श्रोत्र-चक्षुः-घ्राण-रसन-स्पर्शनाख्या दश लब्धयो जीवद्रव्याव्यभिचारिण्यो लक्षणं भवन्ति ।।
तथोपयोगः साकारोऽनाकारश्चाष्ट-चतुर्भेदः । योगो मनो-वाक-कायाख्यस्त्रिधा । अध्यवसायाश्चानेकविधाः सूक्ष्माः मनःपरिणामसमुत्थाः । विष्वक् पृथग् लब्धीनामुदयाः प्रादुर्भावाः क्षीरमध्वास्त्रवादयः । ज्ञानावरणाद्यन्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदयः । लेश्याः कृष्णादिभेदाः शुभा अशुभाश्च कषाय-योगपरिणामविशेषसमुत्थाः । संज्ञास्त्वाहार-भय-परिग्रह- 20 मैथुनाख्याः, अथवा दशभेदाः, अनन्तरोक्ताश्चतस्रः, क्रोधाद्याश्च चतस्रः,
१. एक्का च । २. अङ्कतोऽपि ख च । ३. इति इति गप्रतौ नास्ति । ४. ०णा । साम्प्रतं लक्षण० ख । ५. लद्धीए छ ज झ, लद्धी य ठ । ६. लद्धिओदइया क ख झ ठ, लद्धिओवइया छ, लद्धिओ उदइया ज । ७. लेस्सा क-छप्रती ऋते । ८. ०पातादिविरतिलक्षणं ख । ९. चेत:परिणामविशेषाः । वि० ख च, मन:परिणामविशेषाः । वि० घ ङ। १०. ०ष्टकस्वशक्ति० ख । ११. लेश्या उत्कृष्टादिभेदा: शुभाशुभाश्च ख । १२. ०परिणतिविशेषाः । संज्ञा० ख घ ङ च ।
15