________________
१४४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
तथा नारक-देवानां संवृता योनिः, नेतरे । द्वि-त्रि-चतुरिन्द्रियसम्मूर्छनजपञ्चेन्द्रियतिर्यङ्-मनुष्याणां विवृता योनिः, नेतरे । गर्भव्युत्क्रान्तिकतिर्यङ्-मनुष्याणां संवृतविवृता योनिः, नेतरे ।
तथा नारका नपुंसकयोनय एव । तिर्यञ्चस्त्रिविधाः-स्त्री-पुं-नपुंसक5 योनयोऽपि । मनुष्या अप्येवं त्रैविध्यभाजः । देवाः स्त्री-पुंयोनय एव । तथाऽपरं
मनुष्ययोनेस्त्रैविध्यम्, तद्यथा-कूर्मोन्नता, तस्यां चाहत्-चक्र वादिसत्पुरुषाणामुत्पत्तिः । तथा शङ्कावर्ता, सा च स्त्रीरत्नस्यैव, तस्यां च प्राणिनां सम्भवोऽस्ति, न निष्पत्तिः । तथा वंशीपत्रा, सा च प्राकृतजनस्येति ।
तथाऽपरं त्रैविध्यं नियुक्तिकृद् दर्शयति, तद्यथा-अण्डजा पोतजा जरायुजा 10 चेति । तत्राण्डजाः पक्ष्यादयः । पोतजाः वल्गुली-गज-कलभादयः । जरायुजा
गो-महिषी-मनुष्यादयः । तथा द्वि-त्रि-चतुः-पञ्चेन्द्रियभेदाच्च भिद्यन्ते । एवमेते त्रसास्त्रिविधयोन्यादिभेदेन प्ररूपिताः । एतद्योनि-सङ्ग्राहिण्यौ च गाथे
पुढवि-दग-अगणि-मारुय-पत्तेय-निओयजीवजोणीणं । सत्तग सत्तग सत्तग सत्तग दस चोद्दस य लक्खा ॥ विगलिंदिएसु दो दो चउरो चउरो य नारय-सुरेसु । तिरियाण होंति चउरो चोद्दस मणुयाण लक्खाई ॥ [ ] एवमेते चतुरशीतियोनिलक्षा भवन्ति । तथा कुलपरिमाणम्कुलकोडिसयसहस्सा बत्तीसऽटुट्ठ नव य पणुवीसा । एगिदिय-बि-तिइंदिय-चउरिंदिय-हरियकायाणं ॥ अड्डत्तेरस बारस दस नव नव चेव कोडिलक्खाई । जलयर-पक्खि -चउप्पय-उर-भुयपरिसप्पजीवाणं ॥ पणुवीसं छव्वीसं च सयसहस्साइँ नारय-सुराणं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥
15
20
१. तथा देव-नारकाणां सं० ग । २. मनुष्याणां योने० च । ३. सम्भवः, नास्ति निष्पत्तिः ख। ४. अण्डजा: ख घ च । ५. ०युजाश्चेति क-डप्रती ऋते । ६. ०कलभकादयः च। ७. ०ते त्रिधा सा योन्यादि० ग । ८. ०सङ्ग्राहिण्योऽथ गाथाः ग घ । ९. विगलिंदियाण दो ख च । १०. तिरिएसु हुँति ख । ११. चउदस ख ग. चुद्दस घ ङ। १२. अद्धत्तेरस० ग च । १३. दस दस नव चेव क-घपुस्तके विना ।