SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 5 १४० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे परिस्फुटा क्रियोपलब्धिः । न चैतद् अभिहिततरुसम्बन्धि क्रियाजालं ज्ञानमन्तरेण घटते, तस्मात् सिद्धं चित्तवत्त्वं वनस्पतेरिति । तथा यथेदं छिन्नं म्लायति तथैतदपि छिन्नं म्लायति । मनुष्यशरीरं हि हस्तादि छिन्नं म्लायति शुष्यति तथा तरुशरीरमपि पल्लव-फल-कुसुमादि छिन्नं शोषमुपगच्छद् दृष्टम्, न चाचेतनानामयं धर्म इति । तथा यथा इदं मनुष्यशरीरं स्तनक्षीर - व्यञ्जन - ओदनाद्याहाराभ्यवहाराद् आहारकं तथा एतदपि वनस्पतिशरीरं भू-जलाद्याहाराभ्यवहारकम्, न चैतदाहारकत्वमचेतनानां दृष्टम्, अतस्तद्भावात् सचेतनत्वमिति । तथा यथा इदं मनुष्यशरीरकम् अनित्यकं न सर्वदाऽवस्थायि तथा 10 एतदपि वनस्पतिशरीरमनित्यं नियतायुष्कत्वात्, तथाहि-- अस्य दश वर्षसहस्रा - ण्युत्कृष्टमायुः । तथा यथा इदं मनुष्यशरीरम् अशाश्वतं प्रतिक्षणमावीचीमरणेन मरणात् तथा एतदपि वनस्पतिशरीरमिति । तथा यथेदमिष्टाऽनिष्टाहारादिप्राप्त्या चया - ऽपचयिकं वृद्धि - हान्यात्मकं 15 तथैतदपीति । ७ तथा यथा इदं मनुष्यशरीरं विविधः परिणामः तत्तद्रोगसम्पर्कात् पाण्डुत्वउदरवृद्धि-शोफ-कृशत्वा-ऽङ्गुलि - नासिकाप्रवेशादिरूपो बालादिरूपो वा तथा रसायन-स्नेहाद्युपयोगाद् विशिष्टकान्ति- बलोपचयादिरूपो विपरिणामः तद्धर्मकं तत्स्वभावकं तथा एतदपि वनस्पतिशरीरं तथाविधरोगोद्भवात् पुष्प-फल- पत्र20 त्वगाद्यन्यथाभवनात् तथाविधदौहृदप्रदानेन पुष्प- फलाद्युपचयाद् विपरिणामधर्मकम् । एवमनन्तरोक्तधर्मकलाप सम्भवाद् असंशयं गृहाणैतत् ‘सचेतनास्तरवः’ १. ०लब्धिर्भवेत् । न ग । २. तथेदमपि ख ग च । ३ तथा इति ग- चप्रत्योर्न वर्तते । ४. ०ओदनाद्याहारकं ग च । ५. मनुष्यशरीरम् ख ग च । ६. ०शरीरमपि ग । ७. विविधपरिणामं क ग च, विविधपरिणामः ख । ८. ०पचयतिरूपो ङ । ९. पुष्प-पत्र - फलत्व० ख च । १०. तथा विशिष्टदौ० ख, तथा विशिष्टाहारदौ ० ग तथा विशिष्टदोहदप्रदा० च । ११. ० सद्भावात् ख च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy