________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः १३९ वृद्धतापरिणामविशेषवच्चेतनावत्सदाधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते तथा एतदपि वनस्पतिशरीरम, यतो जातः केतकतरुर्बालको युवा वृद्धश्च संवृत्त इति । अतस्तुल्यत्वाद् एतदपि जातिधर्मकम्, न च कश्चिद् विशेषोऽस्ति येन सत्यपि जातिधर्मत्वे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमिति । ननु च जातिधर्मत्वं केश-नख-दन्तादिष्वप्यस्ति, अव्यभिचारि च लक्षणं भवति, अस्ति 5 च व्यभिचारः, तस्माद् अयुक्तं कल्पयितुं जातिधर्मत्वं जीवलिङ्गमिति । उच्यतेसत्यम्, अस्ति जननमात्रम्, किन्तु मनुष्यशरीरप्रसिद्धबाल-कुमार-युववृद्धावस्थानामसम्भवः केशादिष्वस्ति स्फुटः, तस्माद् असमञ्जसमेतत् । अपि च केश-नखं चेतनावत्पदार्थाधिष्ठितशरीरस्थं जातमित्युच्यते, वर्धते इति वा, न पुनस्त्वयैवं तरवोऽपि चेतनावत्पदार्थाधारस्था इष्यन्ते, त्वन्मते भुवोऽचेतनत्वात्, 10 तस्माद् अयुक्तमिति । अथवा जातिधर्मत्वादीनि समुदितानि सूत्रोक्तान्येक एव हेतुः, न पृथग्घेतुता, न च समुदायहेतुः केशादिष्वस्ति, तस्माद् अदोष इति ।
___ तथा यथेदं मनुष्यशरीरमनवरतं बाल-कुमाराद्यवस्थाविशेषैर्वर्धते तथा एतदपि वनस्पतिशरीरमङ्कर-किशलय-शाखा-प्रशाखादिभिविशेषैर्वर्धत इति ।
तथा यथा इदं मनुष्यशरीरं चेतनावद् एवं वनस्पतेरपि । कथम् ? चेतयति 15 येन तत् चित्तं ज्ञानम्, ततश्च यथा मनुष्यशरीरं ज्ञानेनानुगतमेवं वनस्पतिशरीरमपि यतो धात्री-प्रपुना(न्ना?)टादीनां स्वाप-विबोधतस्तद्भावः, तथाऽधोनिखातद्रविणराशेः स्वप्ररोहेणावेष्टनम्, प्रावृड्जलधरनिनाद-शिशिरवायुसंस्पर्शाद् अङ्कुरोद्रेदः, तथा मदमदनसङ्गस्खलद्गतिविघूर्णमानलोल-लोचनविलासिनीसंनूपुरसुकुमारचरणताडनाद् अशोकतरोः पल्लव-कुसुमोक्रेदः, तथा सुरभि- 20 सुरागण्डूषसेकाद् बकुलस्य स्पृष्टप्ररोदिकादीनां च हस्तादिसंस्पर्शात् सङ्कोचादिका
१. तथेदमपि कप्रति विना । २. च घ-ङपुस्तकयोनास्ति । ३. वनस्पतेरिति क । ४. ० कुमारकाद्यवस्थाना० ख ग च । ५. "तरवोऽपि इति के शादयस्तावदिप्यन्त एव चेतनावत्पदार्थाधारस्था:" जै०वि०प० । ६. ०शरीरकमन० ग च । ७. चित्तवद् कपुस्तकाद्विना । ८. वनस्पतिशरीरमपि चित्तवत् । कथं कप्रतेविना । ५. .०शरीरं चित्तवत्, एवं च ज्ञानेना० ङ। १०. ०विबोधसद्भावः ख । ११. ०सन्नूपुर० ख । १२. ०कुसुमोद्गमः, तथा ख च । १३. स्पृष्टप[ रो? ]दिकादीनां क, स्पृष्टप्ररोहिकादीनां घ ङ, "स्पृष्टपरो दिका: इति छिन्नपरोदिकाः" जै०वि०प० ।