SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 5 10 १३८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे asगरूवे पाणे विहिंसति । लज्जमाणा इत्यादि यावत् अण्णे वऽणेगरूवे पाणे विहिंसइत्ति प्राग्वद् नेयम्, नवरं वनस्पत्यालापो विधेय इति । साम्प्रतं वनस्पतिजीवास्तित्वे लिङ्गमाह " [सू०४५ ] से बेमि — इमं पि जातिधम्मयं, एयं पि जातिधम्मयं इमं पि वुडिधम्मयं एयं पि वुड्डिधम्मयं, इमं पि चित्तमंतयं, एयं पि चित्तमंतयं, इमं पि छिण्णं मिलाति, एवं पि छिण्णं मिलाति, इमं पि आहारगं, एवं पि आहारगं, इमं पि अणितियं, एयं पि अणितियं, इमं पि असासयं, एयं पि असासयं, इमं पि चयोवचइयं, एयं पि चयोवचइयं, इमं पि विष्परिणामधम्मयं, एयं पि विप्यरिणामधम्मयं । से बेमीत्यादि । सोऽहमुपलब्धतत्त्वो ब्रवीमि । अथवा वनस्पतिचैतन्यं 15 प्रत्यक्षप्रमाणसमधिगम्यमानस्वरूपं येत् तदहं ब्रवीमि । यथाप्रतिज्ञातमर्थं दर्शयति— इमं पि जाइधम्मयं ति । इहोपदेशदानाय सूत्रारम्भः, तद्योग्यश्च पुरुषो भवति, अतस्तस्य सामर्थ्येन सन्निहितत्वात् तच्छरीरं प्रत्यक्षासन्नवाचिनेदमा परामृशति । इदमपि पुंरुषशरीरं जननं जातिरुत्पत्तिः तद्धर्मकम्, ऐतदपि वनस्पतिशरीरं तद्धर्मकं तत्स्वभावमेवेति । पूर्वकः अपिशब्दः सर्वत्र यथाशब्दार्थे, द्वितीयस्तु 20 'समुच्चये व्याख्येयः । ततश्चायमर्थः यथा पुंरुषशरीरं बाल-कुमार-युव १. विहिंसंति त्ति ग । २. नेयमिति, नवरं च । ३. ०प्रमाणं सम० ख । ४ ० स्वरूपं यावत् तावदहं ख । ५. यच्च तदहं गं । ६. तच्छरीरप्रत्य० ख । ७. मनुष्यशरीरं ख ग च । ८. जननं इति ख पुस्तके नास्ति । ९. एतदिति वन० ख । १०. सर्वत्र वा शब्दार्थे च । ११. ० शब्दार्थः द्वि० क । ११. समुच्छ्रये च । १३. मनुष्यशरीरं ख ग च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy