________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः १३५ प्रहणाद्वा तन्मध्यग्रहणमवसेयमिति । एवं विषयलोकमाख्याय विवक्षितमाह
एस लोए वियाहिए, एत्थ अगुत्ते अणाणाए । एष इति रूप-रसगन्ध-स्पर्श-शब्दविषयाख्यो लोको व्याख्यातः, लोक्यते परिच्छिद्यते इति कृत्वा । एतस्मिंश्च प्रस्तुते शब्दादिगुणलोके अगुप्तः यो मनो-वाक्-कायैः, मनसा द्वेष्टि रज्यते वा, वाचा प्रार्थनं शब्दादीनां करोति, कायेन शब्दादिविषय- 5 देशमभिसर्पति । एवं यो ह्यगुप्तो भवति सः अनाज्ञायां वर्तते, न भगवत्प्रणीतप्रवचनानुसारीति यावद् इति । एवंगुणश्च यत् कुर्यात् तदाह
पुणो पुणो इत्यादि । ततश्चासावसकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धेनिवर्तयितुम्, अनिवर्तमानश्च पुनः पुनर्गुणास्वादो भवति, क्रियासातत्येन पुनः पुनः शब्दादिगुणानास्वादयतीत्यर्थः । तथा च यादृशो भवति 10 तद् दर्शयति
वक्रः असंयमः कुटिलो नरकादिगत्याभिमुख्यप्रवणत्वात्, समाचरणं समाचार: अनुष्ठानम्, वक्र: समाचारो यस्य स तथा, असंयमानुष्ठायीत्यर्थः । अवश्यमेव शब्दादिविषयालिाषी भूतोपमर्दकारीत्यतो वक्रसमाचार: । प्राक् शब्दादिविषयलवसमास्वादनाद् गृद्धः पुनरात्मानमावारयितुमसमर्थत्वाद् 15 अपथ्याम्रफलभोजिराजवद् विनाशमाशु संश्रयत इति । एवं चासौ नितरां जित:
१. ०त्प्रणीतवचना० घ । २. पुणो इत्यादि क । ३. यस्यासौ वक्रसमाचार: असंय० ख च । ४. ०माचारयित० घ ङ विना । ५. "जहा कागणिए हेडं, सहस्सं हारए नरो । अपत्थं अंबगं भुच्चा, राया रज्जं तु हारए ॥ उत्तराध्यय० ७॥११॥
तथा अपथ्यमाम्रफलं भुक्त्वा अभ्यवहत्य राजा नृपतिः राज्यं पृथिवीपतित्वं तुः अवधारणे भिन्नक्रमञ्च, तेन हारयेदेव, सम्भवत्येव अस्याऽपथ्यभोजिनो राज्यहारणमित्यक्षरार्थः । भावार्थस्तु वृद्धसम्प्रदायादवसेयः । स चायम्
___ जहा कस्सइ रन्नो अंबाजिन्नेण विसूइया जाया । सा तस्स वेज्जेहिं महया किच्छेण विचिकिच्छिया । भणिओ य-जइ पुणो अंबाणि खायसि तो विणस्ससि । तस्स य पियाणि अईव अंबाणि । तेण सदेसे सव्वे उच्छाया अंबया । अन्नया आसवाहणियाए निग्गओ सह अमच्चेण अस्सेण अवहरिओ । अस्सो दूरं गन्तृण परिस्संतो ठिओ । एगम्मि वणसंडे चूयच्छायाए अमच्चेण वारिज्जमाणो वि निविट्ठो । तस्स य हेतु अंबाणि पडियाणि । सो ताणि परामुसइ, पच्छा अग्घाइ, पच्छा चक्खिउं निढुहइ । अमच्चो वारेइ । पच्छा भक्खेउं मओ । इति सूत्रगर्भार्थः ॥७।११।।" इति उत्तराध्ययनस्य सप्तमेऽध्ययने सुखवोधावृत्तौ ।।