SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १३४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे रजत-सुवर्णैरीवर्तमानैर्यदन्यत् तदन्तःपात्यावर्त्यते स द्रव्यैरावर्त इति । अधिकरणविवक्षायामेकस्मिन् जलद्रव्ये आवर्तः, तथा रजत-सुवर्ण-रीतिकात्रपु-सीसकेष्वेकस्थीकृतेषु बहुषु द्रव्येष्वावर्तः । भावावर्तो नाम अन्योन्यभाव सङ्क्रान्तिः, औदयिकभावोदयाद् वा नरकादिगतिचतुष्टयेऽसुमानावर्तते । इह च 5 भावावर्तेनाधिकारः, न शेषैरिति । ___अथ य एते गुणाः संसारावर्तकारणभूताः शब्दादयो वनस्पतेरभिनिर्वृत्तास्ते किं नियतदिग्देशभाज उत सर्वदिक्षु ? इत्यत आह उर्दू अवमित्यादि । प्रज्ञापकदिगङ्गीकरणाद् ऊर्ध्वदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतल-हादिषु । अवमिति अवाङ अधस्ताद गिरिशिखर10 प्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अध:शब्दार्थेऽवाङ् इत्ययं वर्तते । गृहभित्यादिव्यवस्थितं रूपगुणं च तिर्यक् पश्यति । तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्चेमाः-प्राचीनम् इति पूर्वा दिग् । एतच्चोपलक्षणम्, अन्या अप्येतदाग्द्यास्तिर्यग्दिशो द्रष्टव्या इति । एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपाणि द्रव्याणि चक्षुर्ग्राह्यतया परिणतानि पश्यति, उपलभत 15 इत्यर्थः । तथा तासु च शृण्वन् शृणोति शब्दान् उपयुक्तः श्रोत्रेण, नान्यथेति । __ अत्रोपलब्धिमात्रं प्रतिपादितम् न चोपलब्धिमात्रात् संसारप्रपात:, किन्तु यदि मूच्र्छा रूपादिषु करोति ततोऽस्य बन्ध इति दर्शयितुमाह- उड्ढमित्यादि । पुनरूर्वादेर्मूर्छासम्बन्धार्थमुपादानम् । मर्छन् रूपेषु मूर्च्छति, राग परिणामं यान् रज्यते रूपादिष्वित्यर्थः । एवं शब्देष्वपि मूछति । अपिशब्दः सम्भावनायां समुच्चये वा । रूप-शब्दविषयग्रहणाच्च शेषा अपि 20 गन्ध-रस-स्पर्शा गृहीता भवन्ति । एकग्रहणे तज्जातीयानां ग्रहणात्, आद्यन्त १. ०रावर्त्यमानै० ख च, गपुस्तके पाठभङ्गः । २. ०त्यावर्तते घ ङ च, गपुस्तके पाठत्रुटिः । ३. च इति क-घप्रत्योर्न विद्यते । ४. अधमित्यादि ख च, अहमित्यादि ग ५. ऊर्द्धदि० कपुस्तकादृते । ६. अधमिति ग च । ७. अवा अध० क च। ८. ०दारूढो, ख च। ९. अधादित्ययं क । १०. ०व्यवस्थितरूप० क ख । ११. च इति कति विना नान्यत्रास्ति । १२. दिगिति ख । १३. ०रूद्धदे० कआदर्शेन विना । १४. ०परिणामवान् च । १५. "यान् इति गच्छन्'' जै०वि०प० । १६. युज्यते ख । १७. तज्जातीयग्रहणात् ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy