________________
१३३
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः न शक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् । राग-द्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् । [ ]'
कथं पुनर्गुणभूयस्त्वं वनस्पतिभ्यः ? इति प्रदर्श्यते-वेणु-वीणा-पटहमुकुन्दादीनामातोद्यविशेषाणां वनस्पतेरुत्पत्तिः । ततश्च मनोहराः शब्दा निष्पद्यन्ते । प्राधान्यमत्र वनस्पतेविवक्षितम्, अन्यथा तु तन्त्री-चर्म-पाण्यादिसंयोगात् 5 शब्दनिष्पत्तिरिति । रूपं पुनः काष्ठकर्मस्त्रीप्रतिमादिषु गृह-तोरण-वेदिकास्तम्भादिषु च चर्रमणीयम् । गन्धा अपि हि कर्पूर-पाटल-लवली-लवङ्गकेतकी-सरस-चन्दना-ऽगरु-कक्कोलक-एला-जातिफल-पत्रिका-केसरमांसी-त्वक्-पत्रादीनां सुरभयो गन्धेन्द्रियाह्लादकारिणः प्रादुर्भवन्ति । रसास्तु बिश-मृणाल-मूल-कन्द-पुष्प-फल-पत्र-कण्टक-मञ्जरी-त्वग-ऽङ्कर- 10 किशलया-ऽरविन्द-केसरादीनां जिह्वेन्द्रियप्रह्लादिनो निष्पद्यन्ते अतिबहव इति । तथा स्पर्शाः पद्मिनीपत्र-कमलदल-मृणाल-वल्कल-दुकूल-शाटक-उपधानतूलिक-प्रच्छादनपटादीनां स्पर्शनेन्द्रियसुखाः प्रादुःषन्ति । एवमेतेषु वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु यो वर्तते स आवर्ते वर्तते, यश्चाऽऽवर्तवर्ती स राग-द्वेषात्मकत्वाद् गुणेषु वर्तत इति । ...
स आवर्ता नामादिभेदात् चतुर्धा । नाम-स्थापने क्षुण्णे । द्रव्यावर्तः स्वामित्व-करणा-ऽधिकरणेषु यथासम्भवं योज्यः । स्वामित्वे नद्यादीनां क्वचित्प्रविभागे जलपरिभ्रमणं द्रव्यस्यावर्तः, द्रव्याणां बा हंस-कारण्डवचक्रवाकादीनां व्योम्नि क्रीडतामावर्तनाद् आवर्तः । करणे तु तेनैव जलद्रव्येण भ्रमता यदन्यदावर्त्यते तृण-कलिञ्चादि स द्रव्येणावर्तः, तथा त्रपु-सीसक-लोह- 20
15
१. ०येत् ॥ इति । कथं घ ङ च । २. पाटला० ङ, ०पाट्टल० च । ३. केतकीरसचन्दना० क । ४. ०ना-ऽगरु० घ । ५. जातीफल० ग घ ङ। ६. ०मांसि० ख ङ। ७. बिस० ग घ । ८. ०कन्दक० ख ग च । ९. ०मञ्जरि० च । १०. ०यह्लादिनो निष्पद्यन्ते बहव इति घ । ११. ०तूलि-प्र० घ ङ । १२. ०प्रच्छदपटा० च । १३. इति ख पुस्तके नास्ति । १४. स चावर्तो ग च । १५. वा इति चप्रतौ न विद्यते । १६. ०कारण्ड-चक्र० ग, ०कारण्डक-चक्र० त्त । १७. तु इति कपुस्तके नास्ति, तु तेनैव द्रव्येण ख । १८. ०दावर्तते खप्रतिमृते । १९. "कलिंच इति वंशखण्डम्'' जै०वि०प० ।