SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे [सू०४१] जे गुणे से आवट्टे, जे आवट्टे से गुणे । उर्दू अहं तिरियं पाईणं पासमाणे रूवाइं पासति, सुणमाणे सद्दाइं सुणेति । उड़े अहं तिरियं पाईणं मुच्छमाणे रूवेसु मुच्छति, सद्देसु यावि। 5 एस लोगे वियाहिते । एत्थ अगुत्ते अणाणाए पुणो .. पुणो गुणासाते वंकसमायारे पमत्ते गारमावसे । जे गुणे से आवट्टे जे आवट्टे से गुणे । यो गुणः शब्दादिक: स आवर्तः, आवर्तन्ते परिभ्रमन्ति प्राणिनो यत्र स आवर्तः संसारः । इह च कारणमेव कार्यत्वेन व्यपदिश्यते यथा नड्वलोदकं पादरोगः । एवं य एते शब्दादयो गुणाः 10 स आवर्तः तत्कारणत्वात् । अथवैकचनोपादानात् पुरुषोऽभिसम्बध्यते, यः शब्दादिगुणे वर्तते स आवर्ते वर्तते, यश्चावर्ते वर्तते स गणे वर्तत इति । अत्र कश्चिच्चोद्यचञ्चुराह-'यो गुणे वर्तते स आवर्ते वर्तते इति साधु । यः पुनरावर्ते वर्तते नासौ नियमत एव गुणेषु वर्तते, यस्मात् साधवो वर्तन्त आवर्ते, न गुणेषु । तद् एतत् कथमिति ? अत्रोच्यते-सत्यम्, आवर्ते यतयो वर्तन्ते, न गुणेषु, किन्तु 15 राग-द्वेषपूर्वकं गुणेषु वर्तनमिहाधिक्रियते, तच्च साधूनां न सम्भवति, तदभावात् । आवर्तोऽपि संसरणरूपो दुःखात्मको न सम्भवति । सामान्यतस्तु संसारान्तःपातित्वं सामान्यशब्दादिगुणोपलब्धिश्च सम्भवत्येव । अतो नोपलब्धिः प्रतिषिध्यते, रागपरिणामो द्वेषपरिणामो वा यस्तत्र स प्रतिषिध्यते, तथा चोक्तम् कण्णसोक्खेहिं सद्देहिं पेम्मं नाभिनिवेसए । [ ] इत्यादि । तथा १. च इति घप्रतो नास्ति । २. वर्तते क-ग-चपुस्तकेषु न वर्तते । ३. अथ घ ङ। ४. कश्चिन्नोद्यचञ्चु० ख । ५. गुणेषु कप्रतिमृते । ६. गुणे किन्तु घ । ७. रागद्वेषपरिणामो ख । ८. कण्णसुक्खेहिं घ ङ। ९. तथा इति कआदर्श नास्ति, तथा चोक्तम् च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy