________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः
नान्यस्यान्धर्मूढ्या प्रवर्तमानस्य, अभिलषितविप्रकृष्टस्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदिति मन्तव्यम् । ज्ञानमपि क्रियाहीनं न मोक्षाय, गृहान्तर्दह्यमाननिनक्षुपङ्गुचक्षुर्ज्ञानवदिति । एवं च ज्ञात्वाऽभ्युपेत्य च तत्परिहारः कर्तव्य इति दर्शितं भवति ।
१३१
एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोति स एव समस्तारम्भनिवृत्त इति 5 दर्शयति - एसोवरए त्ति, एष एव सर्वस्मादारम्भाद् वनस्पतिविषयादुपरतो यो यथावज्ज्ञात्वाऽऽरम्भं न करोतीति । स पुनरेवंविधनिवृत्तिभाक् किं शाक्यादिष्वपि सम्भवति ? उत न ? इहैव प्रवचने इति दर्शयति - एत्थोवर ति एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतः, नान्यत्र । यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वाद् उपरतव्यपदेशभाग् भवति, न शेषा: शाक्यादयः, तद्विपरीतत्वाद् । एष एव च सम्पूर्णानगारव्यपदेशमश्नुते इति दर्शयति—
एैस अणगारे त्ति पव्वुच्चइति एषः अतिक्रान्तसूत्रार्थव्यवस्थितः अविद्यमानागारः अनगार: प्रकर्षेण उच्यते प्रोच्यते इतेि । किंकृत: प्रकर्ष: ? अनगारव्यपदेशकारणभूतगुणकलापसम्बन्धकृतः प्रकर्षः । इतिशब्दः अनगारव्यपदेशकारणपरिसमाप्तिद्योती, एतावदनगारलक्षणम्, नान्यदिति ।
10
१. "अन्धस्तद्योति (मूढ्येति) यथा कथञ्चित् " जै०वि०प० । २. ०क्रियासङ्घातवदिति ख । ३. ०निवृत्तिं करोति इति ङ । ४. उत इहैव प्रवचने ? इति ख ग घ ङ च । ५. ०व प्रव० ख ०व जैनेन्द्रप्रव० ग ०व जिनेन्द्रप्रव० घ । ६. प्रदर्शयति घ । ७. एसऽणगारे ख, एस अणगार इति पवु० क, एस अणगार त्ति पव्वुच्चई एषः ग । ८. ०व्यपदेशभूत० ख । ९. यतो इति खआदर्शे नास्ति । १०. ० द्वेषविघूर्ण० घ ० द्वेषविषविघूर्ण० ङ । ११. ० विष - घूर्ण० ख । १२. ० विषयाभिषङ्गिणो क-गप्रती ऋते ।
15
ये पुनः प्रोज्झितपारमार्थिकानगारगुणाः शब्दादीन् विषयानङ्गीकृत्य प्रवर्तन्ते ते तु नापेक्षन्ते वनस्पतीन् जीवान्, येतो भूयांसः शब्दादयो गुणा वनस्पतिभ्य एव निष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना राग-द्वेषविषमविषेविघूर्णमानलोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः, तदन्त: पातिन एव च शब्दादिविषयाभिष्वङ्गिणो भवन्तीति । अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षण - 20 मितरेतरावधारणफलं सूत्रमाह