________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः
१२९
किंचीत्यादि । किञ्चित् स्वकायशस्त्रं लकुटादि, किञ्चिच्च परकायशस्त्रं पाषाणा-ऽग्न्यादि, तथा उभयशस्त्रं दात्र - दात्रिका - कुठारादि । एतद् द्रव्यशस्त्रम् । भावशस्त्रं पुनर् असंयमः दुष्प्रणिहितमनो - वाक्- कायलक्षण इति ॥ १५०॥ सकलनिर्युक्त्यर्थपरिसमाप्तिप्रचिकटयिषयाह—
सैसाणि उ दाराइं ताइं जाई हवंति पुढवीए ।
एवं वणस्सईए निज्जुत्ती कित्तिया ऐसा ॥ १५१ ॥ छ ॥ दारं ।। सेसा० इत्यादि । उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि । ततस्तद्द्वाराभिधानाद्वनस्पतौ निर्युक्तिः कीर्तिता व्यावर्णितेति ॥ १५१ ॥ साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् तच्चेदम्
,
5
[सू०४० ] तं णो करिस्सामि समुट्टाए मत्ता मतिमं 10 अभयं विदित्ता तं जे णो करए एसोवरते, एत्थोवरए, एस अणगारे ति पवुच्चति ।
तन्नो करिस्सामि समुट्ठाए । अस्य चानन्तर - परम्परादिसूत्रैः सम्बन्धः प्राग्वद् वाच्यः । उक्तं प्राक् 'सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सत्त्वाः' इति । एवं 15 विदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयविमर्दनिवृत्तिमात्यन्तिकीमात्मनि दर्शयन्नाह–तत् वनस्पतीनां दुःखमहं दृष्टप्रत्यपायो न करिष्ये । यदि वा तत् दुःखोत्पत्तिनिमित्तभूतं वनस्पतावारम्भं छेदन - भेदनादिरूपं नो करिष्ये मनोवाक्-कायैः, तथा परैर्न कारयिष्ये, तथा कुर्वतश्चान्यान् नानुमंस्ये । किं कृत्वा ? इति दर्शयति - सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रव्रज्योत्थानेनोत्थाय 20 संमुत्थाय, प्रव्रज्यां प्रतिपद्येत्यर्थः । तदेवं वर्जितसकलसावद्यारम्भकलापः सन्
१. ० शस्त्रं कुठारादि किञ्चिच्च ख । २. सर्वनिर्यु० ख । ३. सेसाई दा० क - छप्रती विना । ४. एसा ।। १५१ ।। समाप्ता पञ्चमोद्देशकनिर्युक्तिः ॥ छ ॥ झ, एसा ॥ १५१ ॥ अध्य० १ उद्दे० ५।। ठ । ५. सेसाई दाराइं० इत्यादि च, सेसाइं० इत्यादि ग । ६. समुट्ठाय ङ । ७. ०तिविषय० क । ८. तथा इति ख-चपुस्तकर्योर्न विद्यते । ९. समुत्थाय, सम्यक् प्रव्रज्यां गं ।