________________
१२८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे शीतापनयनाय काष्ठप्रज्वालनात् । तैलविधानं तिला-ऽतसी-सर्षप-इङ्गदीज्योतिष्मती-करञ्जादिभिः । उद्द्योतः वर्ति-तृण-चूडा-काष्ठादिभिरिति ॥१४७|| एवमेतान्युपभोगस्थानानि प्रतिपाद्य तदुपसञ्जिहीर्घराह
एएहि कारणेहिं हिंसंति वणस्सई बहू जीवे । सायं गवसमाणा परस्स दुक्खं उदीरेंति ॥१४८॥ दारं ॥
एएहीत्यादि । एतैः गाथाद्वयोपात्तैः कारणैः प्रयोजनैः हिंसन्ति व्यापादयन्ति प्रत्येक-साधारणवनस्पतिजीवान् बहून् वनस्पतिसमारम्भिणः पुरुषाः, किम्भूतास्ते ? इति दर्शयति-सातं सुखं तदन्वेषिणः परस्य च वनस्पत्याये के न्द्रिय-द्वीन्द्रियादेः दुःखं बाधामुत्पादयन्तीति ।।१४८।। साम्प्रतं 10 शस्त्रमुच्यते, तच्च द्विधा, द्रव्य-भावभेदात् । द्रव्यशस्त्रमपि समास-विभागभेदाद् द्विधैव । तत्र समासद्रव्यशस्त्राभिधित्सयाह
कप्पणि कुहाडि असियग दत्तिय कुद्दाल वासि परसू अ ।
सत्थं वणस्सईए हत्था पाया मुहं अग्गी ॥१४९॥ ___ कप्पणीत्यादि । कल्प्यते छिद्यते यया सा कल्पनी शस्त्रविशेषः, कुठारी 15 प्रसिद्धैव, असियगं दात्रम्, दात्रिका प्रसिद्धैव, कुद्दालक-वासि-परशवश्च,
एतद् वनस्पतेः शस्त्रम्, तथा हस्त-पाद-मुखा-ऽग्नयश्च इत्येतत् सामान्यशस्त्रमिति ॥१४९॥ विभागशस्त्राभिधित्सयाह
किंची सकाय० गाहा ॥१५०॥ दा० ॥
१. ०सर्षपा-ऽङ्गदी० ख, "अङ्गदी इति इंगोरी, ज्योतिष्कानी (ष्माती? ) इति कंगुणी'' जै०वि०प०, "उद्दे० ५-ज्योतिष्मती कांगुणी'' स०वि०प० । २. ०सञ्जिहीर्षयाह ख च । ३. हिंसंती वणस्स( स )ई क ज । ४. उदीरंति ठ । ५. वनस्पाता( त्या )ोकेन्द्रियादेः दुःखं क, वनस्पत्यादि-द्वीन्द्रियादेर्वा [ दुःखं बा ?] धा० ख, वनस्पत्यादिद्वयेकेन्द्रियादेर्दुःखं ग, वनस्पत्यादि-द्वीन्द्रियादेर्दुःखं च । ६. ०द्वीन्द्रियदो( यो? )र्दुःखं घ । ७. ०मुत्पादयन्ति ग । ८. कुहट्टि ज । ९. यसियग क ज । १०. परुसू क, फरसू ख ठ, फरुसू ज झ । ११. सत्था ज झ । १२. प्रसिद्धा, कुर्दालक० ख, प्रसिद्धा, कुद्दा० ग, प्रसिद्धा, कुद्दालिका० च । १३. किंची स० गाहा ज।