________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः
१२७ प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशपरिमाणाः । के पुनस्त्रयः ? इत्युच्यतेअपर्याप्तकबादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः । एते च क्रमशो बहुतरका द्रष्टव्या इति । साधारणजीवास्तेभ्योऽनन्तगुणाः । एतच्च जीवपरिमाणम्, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति ।।१४५।। परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह
आहारे उवगरणे सयणा-ऽऽसण जाण जुग्गकरणे य । आवरण पहरणेसु य सत्थविहाणेसु य बहूसु ॥१४६॥
आहारेत्यादि । आहारः फल-पत्र-किशलय-मूल-कन्द-त्वगादिनिर्वर्त्यः । उपकरणं व्यजन-कटक-वलका-ऽर्गलादि । शयनं खट्वाफलकादि। आसनम् आसन्दकादि । यानं शिबिकादि । युग्यं गन्त्रिकादि । 10 आवरणं फलकादि । प्रहरणं लकुट-मुसुण्ढ्यादि । शस्त्रविधानानि च बहूनि तन्निर्वानि शर-दात्र-खड्ग-क्षुरिकादिगण्डोपयोगित्वादिति ॥१४६।। तथाऽपरोऽपि परिभोगविधिः, तद्दर्शनायाह
आउज्ज कट्टकम्मे गंधंगे वत्थ मल्लजोए य ।। झावण-वियावणेसु य तेल्लविहाणे अ उज्जोवे ॥१४७॥
15 आउज्जेत्यादि । आतोद्यानि पटह-भेरी-वंश-वीणा-झल्लादीनि । काष्ठकर्म प्रतिमा-स्तम्भ-द्वारशाखादीनि । गन्धाङ्गानि वालक-प्रियङ्ग-पत्रकदमनक-त्वक्-चन्दन-उशीर-देवदार्वादीनि । वस्त्राणि वल्कल-कर्पासमयादीनि। माल्ययोगाः नैवमालिका-बकुल-चम्पक-पुनागा-ऽशोक-मालतीविचकिलादयः । ध्यापनं दाहो भस्मसात्करणमिन्धनैः । वितापनं शीताभ्यर्दितस्य 20
15
१. इत्युच्यन्ते ग । २. साधरण( णा )स्त्वेभ्यो० ग । ३. ०द्वारम( द्वारा )भिधित्सयाह क। ४. "पाटला'' ठटिप्पणी । ५. "खेटका' ठटिप्पणी । ६. "खड्गक्षुरिकादिदण्ड'' ठटिप्पणी। ७. बहुस्सु छ, बहुसु य झ । ८. आहारे इत्यादि ख । ९. ०किसलय० घ ङ। १०. आसिन्दिकादि ग। ११. फरकादि ख घ ङ। १२. ०मुसलादि ग च । १३. ०दण्डोप० ख, ०षण्डोप० ग च । १४. ०त्वादीनि घ । १५. गंधग्गे छ । १६. मल्ले जोए झ । १७. झामण-वियामणेसु ञ, झावणसियावणेसु झ । १८. उज्जोए ख ज झ । १९. ०शाखादि । ग० ख च । २०. ०पत्र-द० च । २१. वनमालिका० क । २२. विचिकिला० ख ङ। २३. ०नं शीतापन० क च ।