SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १२६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे गोला य असंखेज्जा होंति णिओया असंखया गोले । एगेगो य निओओ अणंतजीवो मुणेयव्वो ॥ [ ] एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात् तथा वर्ण-गन्ध-रस-स्पर्शभेदात् सहस्राग्रशो विधानानि सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भेदाना5 मवसेयानीति, तथाहि-वनस्पतीनां संवृता योनिः, सा च सचित्ता-ऽचित्त मिश्रभेदात् त्रिधा, तथा शीतोष्णमिश्रभेदाच्च, तथा प्रत्येकतरूणां दश लक्षा योनिभेदानाम्, साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ॥१४३।। उक्तं विधानद्वारम् । इदानीं परिमाणमभिधीयते, तच्च प्रथमं सूक्ष्मानन्तजीवानां दर्शयितुमाह- . 10 पत्थेण व कुंडएण व जह कोइ मिणिज्ज सव्वधन्नाई । एवं मविज्जमाणा हवंति लोया अणंता उ॥१४४॥ पत्थेणेत्यादि । प्रस्थ-कुडवादिना यथा कश्चित् सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र प्रक्षिपेत् एवं यदि नाम कश्चित् साधारणजीवराशिं लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत्, तत एवं मीयमाना अनन्ता लोका भवन्तीति ॥१४४॥ 15 इदानीं बादरनिगोदपरिमाणाभिधित्सयाऽऽह जे बायरपज्जत्ता पयरस्स असंखभागमेत्ता ते । सेसा असंखलोया तिन्नि वि साहारणाऽणन्ता ॥१४५॥ दारं ॥ जे बायरेत्यादि । ये पर्याप्तकबादरनिगोदास्ते संवर्तितचतुरस्त्रीकृतसकललोकप्रतरासङ्ख्येयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः 20 प्रत्येकशरीबादरवनस्पतिपर्याप्तकजीवेभ्योऽसङ्ख्येय गुणाः । शेषास्त्रयोऽपि राशयः १. एक्केको ख, एक्कक्के य णिओए अणंतजीवा मुणेयव्वा ग च । २. ०यानि, तथा ख च । ३. परिमाणद्वारमभि० ख । ४. तत्र ग ङ । ५. प्रत्येकतरुजीवपरिमाणं प्राक् १३४ गाथयोक्तम् । ६. पत्थेणं कु० छ । ७. कुलएण ख, कुडवेण ज ठ । ८. ०ना भवन्ति लोका अनन्ता इति ख च । ९. सेसा तिन्नि वि रासी असंख साहारणमणंता ज । १०. साहारणमणंता ज, "एते च क्रमशो बहु-बहुतरकाः, साधा० जीवास्तेभ्योऽप्यनन्तगुणाः, एतज्जीवप्रमाणम" ठटिप्पणी । ११ पर्याप्तका बा० घ । १२. संवतच० च । १३. ०चतरश्री० क ग । १४. गुणा इति । शे० ग घ ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy