________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः १२५ सेवाल कच्छभाणिय अवए पणए य किन्नए य हढे । एए अणंतजीवा भणिया अण्णे अणेगविहा ॥१४१॥
सेवाल० इत्यादि । शैवल-कच्छभाणिका-ऽवक-पनक-किण्वहठादयोऽनन्तजीवा गदिताः, अनेकप्रकाराश्चान्येऽपीत्थमवगन्तव्या इति ॥१४१॥ सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वप्रतिपिपादयिषयाह- 5
एक्कस्स दोण्ह तिण्ह व संखेज्जाण व तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंघाया ॥१४२॥
एगस्सेत्यादि । एकजीवपरिगृहीतशरीरं ताल-सरल-नालिकेर्यादिस्कन्धः, स च चक्षुर्ग्राह्यः, तथा बिस-मृणाल-कर्णिका-कुणक-कटाहानामेकजीवपरिगृहीतत्वं चक्षुदृश्यत्वं च । द्वि-त्रि-सङ्ख्येया-ऽसङ्ख्येयजीवपरिगृहीत त्व- 10 मप्येवं दृश्यतया भावनीयमिति ॥१४२॥ किमनन्तानामप्येवम् ? नेत्यत आह
एंगस्स दोण्ह तिण्ह व[s]संखेज्जाण व ण पासिउं सक्का । दीसंति सरीराइं णिओयजीवाणऽणंताणं ॥१४३॥ दा० ॥
एगस्सेत्यादि । नैकादीनामसङ्ख्येयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते, कुतः ? असम्भवात्, न ह्येकादिजीवपरिगृहीतान्यनन्तानां शरीराणि 15 सन्ति, अनन्तजीवपिण्डत्वादेव । कथं तद्युपलभ्यास्ते भवन्ति ? इति दर्शयतिदृश्यन्ते शरीराणि बादरनिगोदानां जीवानामनन्तकायिकानाम्, सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वेऽपि सत्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्तजीवसङ्घाता भवन्तीति, उक्तं च
१. ०भाणीय अ० ख ज, ०हाणीय अ० झ, ०भाणी अ० क ज । २. अवते पणते य किन्नते य हदे ज । ३. अणेगजीवा अ भणि० ख । ४. ०वा जे आऽवण्णे तहाविहा ॥१४१।। ब । ५. चण्णे झ । ६. ०हढादयो० च । ७. ०पिपादयिषुराह च । ८. एकस्स । ९. वि क छ ज । १०. च इति ग-घ-ङ प्रतिषु नास्ति । ११. ०जीवत्वं च । १२. ०त्वमित्येवं घ ङ। १३. एक्कस्स ख । १४. अभावात् कपुस्तकेन विना । १५. ०दानामनन्तजीवानाम, सुक्ष्म० ख च, ० दानामनन्तकायिकानां जीवानाम्, सूक्ष्म० ग, ०दानां स( सं )ख्येवा( या )नामनन्तकायिकानाम्, सूक्ष्म० ङ, घप्रतौ पाठत्रुटिः । १६. ०त्वे सत्यप्यतिसूक्ष्म० ख च ।