________________
१२४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे भवति, तस्य च यदा बीजस्य क्षित्युदकादिसंयोगस्तदा कदाचित् स एव प्राक्तनो जीवस्तत्रागत्य परिणमते, कदाचिदन्य इति । यश्च मूलतया जीवः परिणमते स एव प्रथमपत्रतयाऽपीति, एकजीवकर्तृके मूल-पत्रे इति यावत् । प्रथमपत्रकं च
याऽसौ बीजस्य समुच्छूनावस्था भू-जल-कालापेक्षा सैवोच्यत इति नियम5 प्रदर्शनमेतत्, शेषं तु किशलयादि सकलं न मूलजीवपरिणामाविर्भावितमेवेत्यवगन्तव्यमिति, यत उक्तम्
सव्वो वि किसलओ खलु उग्गममाणो अणंतओ भणिओ । [प्रज्ञा० प० १ गा० ९४ ] इत्यादि ॥१३८॥
तथाऽपरं साधारणलक्षणमभिधित्सुराह10 चक्कागं भज्जमाणस्स गंठी चुण्णघणो भवे ।
पुढविसरिसभेदेणं अणंतजीवं वियाणाहि ॥१३९॥
चक्कागमित्यादि । यस्य मूल-कन्द-त्वक्-पत्र-पुष्प-फलादेर्भज्यमानस्य चक्रकं भवति, चक्राकार: समच्छेदो भङ्गो भवतीति यावत्, यस्य च ग्रन्थिः पर्व
भङ्गस्थानं वा चूर्णेन रजसा घनः व्याप्तो भवति, यो वा भिद्यमानो वनस्पतिः 15 पृथिवीसदृशेन भेदेन केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते तमनन्तकायं विजानीहि ॥१३९।। तथा लक्षणान्तरमाह
गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जं पिय पणट्ठसंधिं अणंतजीवं वियाणाहि ॥१४०॥
गूढसिरागमित्यादि । स्पष्टार्था ॥१४०॥ एवं साधारणजीवान् लक्षणत: 20 प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाह
१. परिणमति ख घ ङ । २. परिणमति घ ङ । ३. एष ग । ४. ०कालापेक्ष्या सैषोच्यत ग । ५. किसलयादि ख । ६. ०गन्तव्यम्, यत ख च । ७. साम्प्रतं साधा० ख, साम्प्रतमपरं साधा० च, तथा साम्प्रतमपरं साधा० ग । ८. सरिसेण भेएण छ ज झ, oसिरिसेण भेतेण च । ९. वियाणाहि ज । १०. गूढच्छिरागपत्तं छ । ११. जं पुण पण० ख ठ । १२. संधि अणं० ब, संधि य अणं० ठ ।