________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः
१२३ साहारणेत्यादि । समानम् एकं धारणम् अङ्गीकरणं शरीरा-ऽऽहारादेर्येषां ते साधारणाः तेषां साधारणानाम् अनन्तकायानां जीवानां साधारणं सामान्यमेकमाहारग्रहणम्, तथा प्राणापानग्रहणं च साधारणमेव, एतत् साधारणलक्षणम्, एतदुक्तं भवति–एकस्मिन्नाहारितवति सर्वेऽप्याहारितवन्तः, तथैकस्मिन्नुच्छसिते निःश्वसिते वा सर्वेऽप्युच्छ्वसिता निःश्वसिता वेति ॥१३६॥ अमुमेवार्थं 5 स्पष्टयितुमाह
ऐगस्स आणुगहणं बहूण साहारणाण तं चेव । जं बहुयाणं गहणं समासओ तं पि एगस्स ॥१३७॥
एगस्सेत्यादि । एको यद् उच्छास-निःश्वासयोग्यपुद्गलोपादानं विधत्ते बहूनामपि साधारणजीवानां तदेव भवति, तथा यच्च बहवो ग्रहणमकापुरकस्यापि 10 तदेवेति ॥१३७॥ अथ ये बीजात् प्ररोहन्ति वनस्पतयस्तेषां कथमाविर्भावः ? इत्यत आह
जोणीभूए बीए जीवो वक्कमइ सो व अन्नो वा । जो वि य मूले जीवो सो चिय पत्ते पढमयाए ॥१३८॥
जोणीभूए० इत्यादि । अत्र भूतशब्दः अवस्थावचनः, योन्यवस्थे बीजे, योनिपरिणाममजहतीत्यर्थः । बीजस्य हि द्विविधा अवस्था योन्यवस्था 15 अयोन्यवस्था च । यदा योन्यवस्थां न जहाति बीजम् उज्झितं च जन्तुना तदा योनिभूतमुच्यते । योनिस्तु जन्तोरुत्पत्तिस्थानमविनष्टमिति । तस्मिन् बीजे योनिभूते जीवः व्युत्क्रामति उत्पद्यते, स एव पूर्वको बीजजीवोऽन्यो वाऽऽगत्य तत्रोत्पद्यते, एतदुक्तं भवति–यदा जीवेनाऽयुष्कक्षयाद् बीजपरित्यागः कृतो
१. ते तथा तेषां क ग । २. ०मेकाहार० ग । ३. साधारणमिहैतत् सा०° ख । ४. ०लक्षणमिति । ए० क-गपुस्तके ऋते । ५. एगस्स उ जइ गहणं ख, एगस्स उ जं गहणं ज ठ। ६. तदेव भवति । अथ ङ। ७. इत्यत्राह ख । ८. जोणिब्भूए क-अप्रतिभ्यां विना । ९. च्चिय क-बआदशौँ विना । १०: "जो पुण मूले जीवो सो निव्वत्तेइ जा पढमपत्तं । कंदाइ जाव बीयं सेसं अन्ने पकुव्वंति ॥ दशवैकालिकनियुक्तौ (गा० )" ज-ठप्रत्योष्टिप्पणी । ११. जोणीत्यादि ख च, जोणिब्भूए बीए० इत्या० ग । १२. समुज्झितं ङ । १३. वा तत्रागत्योत्पद्यते ख । १४. ०ऽऽयुषः क्ष०. च ।