SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे विशेषानुपादानात् साधारणाः सूक्ष्म-बादर-पर्याप्तका-ऽपर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेषः-साधारणबादरपर्याप्तकेभ्यो बादरा अपर्याप्तका असङ्ख्येयगुणाः, बादरा-पर्याप्तकेभ्यः सूक्ष्मा अपर्याप्तका असङ्ख्येयगुणाः, तेभ्योऽपि सूक्ष्माः 5 पर्याप्तका असङ्ख्येयगुणा इति ॥१३४॥ सम्प्रत्येषां तरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया नियुक्तिकृदाह एएहिँ सरीरेहिं पच्चक्खं ते परूविया जीवा । सेसा आणागिज्झा [य] चक्खुणा जे न दीसंति ॥१३५॥ [दारं ?] एएहीत्यादि । एतैः पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः प्रत्यक्षं 10 साक्षात् ते वनस्पतिजीवाः प्ररूपिताः प्रसाधिताः, तथाहि-न ह्येतानि शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाञ्जि भवन्ति, तथा च प्रयोगः-जीवशरीराणि वृक्षाः, अक्षाधुपलब्धिभावात्, पाण्यादिसङ्घातवत् । तथा कदाचित् सचित्ता अपि वृक्षाः, जीवशरीरत्वात्, पाण्यादिसङ्घातवदेव । तथा मन्दविज्ञान-सुखादि मन्तस्तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत् । तथा चोक्तम्15 वृक्षादयोऽक्षाधुपलब्धिभावात्, पाण्यादिसङ्घातवदेव देहाः । तद्वत् सजीवा अपि देहतायाः, सुप्तादिवद् ज्ञान-सुखादिमन्तः ॥ [ ] शेषा इति सूक्ष्माः ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्याः, आज्ञा च भगवद्वचनमवितथमरक्तद्विष्टप्रणीतमिति श्रद्धातव्यमिति ॥१३५॥ साम्प्रतं साधारणलक्षणमभिधित्सुराह साहारणमाहारो साहारणमाणुपाणुगहणं च । साहारणजीवाणं साहारणलक्खणं एयं ॥१३६॥ १. सूक्ष्मपर्या० ख ग च, सूक्ष्मपर्याप्तका: सङ्ख्ये० घ ङ। २. विशेषैः प्र० च । ३. भवन्तीति क-गप्रती ऋते । ४. अक्ष्याधुप० क-च । ५. ०सङ्घातवदिति । ख । ६. “तथा कदाचिद् इति तथा भवन्ति' जै०वि०प० । ७. ०ऽक्ष्याद्युप० च । ८. “देहताया इति अयं हेतुरुभयथा सम्बध्यते' जै०वि०प० । ९. सुप्तादिविज्ञान० ख च । १०. ग्राह्या इति, आज्ञा कप्रतिमृते । ११. श्रद्धातव्यमेव । क-गआदर्शी विना । १२. १३१-१३२ गाथाभ्यां प्रत्येकवनस्पतिकायलक्षणं प्रागुक्तम् । १३. साहारण आणुपाणग० ख झ ठ, साहारण आणुपाणु० ज । 20
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy