________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः १२१ जह वेत्यादि । यथा वा तिलशष्कुलिका तिलप्रधाना पिष्टमयपोलिका बहुभिस्तिलैर्निष्पादिता सती भवति तथा प्रत्येकशरीराणां तरूणां शरीरसङ्घाता भवन्तीति द्रष्टव्यमिति ॥१३२।। साम्प्रतं प्रत्येकशरीरजीवानामेका-ऽनेकाधिष्ठितत्वप्रतिपिपादयिषयाह
नाणाविहसंठाणा दीसंती एगजीविया पत्ता । खंधा वि एगजीवा ताल-सरल-नालिएरीणं ॥१३३॥
णाणाविहेत्यादि । नानाविधं भिन्नं संस्थानं येषां तानि नानाविधसंस्थानानि पत्राणि, यानि चैवंभूतानि दृश्यन्ते तान्येकजीवाधिष्ठितान्यवगन्तव्यानि । तथा स्कन्धा अप्येकजीवाधिष्ठितास्ताल-सरल-नालिकेर्यादीनाम्, नात्रानेकजीवाधिष्ठितत्वं सम्भवतीति । अवशिष्टानां त्वनेकजीवाधिष्ठितत्वं सामर्थ्यात् 10 प्रतिपादितं भवति ॥१३३॥ सम्प्रति प्रत्येकतरुजीवराशिपरिमाणाभिधित्सयाऽऽह
पत्तेया पज्जत्ता सेढी' असंखभागमेत्ताए । लोगाऽसंखाऽपज्जत्तगाण साधारणाऽणंता ॥१३४॥
पत्तेया० इत्यादि । प्रत्येकतरुजीवाः पर्याप्तकाः संवर्तितचतुरस्त्रीकृतलोकश्रेण्यसङ्ख्येयभागवाकाशप्रदेशराशि तुल्यप्रमाणाः, एते च पुन- 15 बर्बादरतेजस्काय पर्याप्तकराशेरसङ्ख्येयगुणाः । ये पुनर पर्याप्तकाः प्रत्येकजन्तवस्ते ह्यसङ्ख्येयानां लोकानां यावन्तः प्रदेशास्तावन्त इति, एतेऽप्यपर्याप्तकबादरतेजस्कायजीवराशेरसङ्ख्येयगुणाः । सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः पर्याप्ता अपर्याप्तका वा न सन्त्येव । साधारणास्त्वनन्ता इति
१. जहेत्यादि ग ङ । २. तिलसक्कलिया ग, तिलशक्कुलिया घ ङ । ३. खंधे य एगजीवो ञ । ४. ०नालिएराणं ब । ५. साम्प्रतं ग । ६. सेढीय ज । ७. ०मेत्ताते ख ज ञ ठ, मेत्तातो छ । ८. साधारणमणंता ब । ९. ०ता॥१३४॥ दारां। क छ । १०. "संवर्तित इति सप्तरज्जुप्रमाणा'' जे०वि०प० । ११. ०चतुरश्री० क ग । १२. ०तुल्यपरिमाणाः ख । १३. ०पर्याप्तराशे० घ ङ । १४. ०पर्याप्ताः ख घ ङ । १५. प्रत्येकतरुजन्त० घ । १६. ०स्तेऽसङ्ख्ये० क । १७. एते ह्यपर्या० क ।