________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
७
अंग्गबीय मूलबीया खंधबीया चेव पोरबीया य । बीयरुहा सम्मुच्छिम समासओं वैणप्फईजीवा ॥१३०॥ अग्गबीत्यादि । तत्र कोरेण्टकादयोऽग्रबीजाः । कदल्यादयो मूलबीजाः। निहू-शल्यकी- अरणिकादयः स्कन्धबीजाः । इक्षु-वंश-वेत्रादयः 5 पर्वबीजाः । बीजरुहाः शालि - व्रीह्यादयः । सम्मूर्च्छनजाः पद्मिनी - शृङ्गाटकपाठा-शैवलादयः। एवमेते समासात् तरुजीवाः षोढा कथिताः, नान्ये सन्तीति प्रतिपत्तव्यम् ॥१३०॥ किंलक्षणा: पुनः प्रत्येकतरवो भवन्ति ? इत्यत आहज़ह संगल सरिसवाणं सिलेसमिस्साण वत्तिया वट्टी । पत्तेयसरीराणं तह होंति सरीरसंघाया ॥१३१॥
१२०
10
जहेत्यादि । यथा इति दृष्टान्तोपन्यासार्थः । यथा सकलसर्षपाणाम् श्लेषयतीति श्लेषः 'सैर्जरसादिस्तेन मिश्रितानां वर्तिता वलिता वर्तिः तस्यां च वर्तौ प्रत्येकप्रदेशाः क्रमेण सिद्धार्थकाः स्थिताः, नान्योन्यानुवेधेन, चूर्णितास्तु कदाचिदन्योन्यानुवेधभाजोऽपि स्युरित्यतः सकलग्रहणम् । यथाऽसौ वर्तिस्तथा प्रत्येकतरुशरीरसङ्घातः, यथा च सर्षपास्तथा तदधिष्ठायिनो जीवाः, यथा 15 श्लेषविमिश्रितास्तथा राग- -द्वेषप्रचितकर्मपुद्गलोदयमिश्रिता जीवाः । पश्चिमार्द्धेन गाथाया उपन्यस्तदृष्टान्तेन सह साम्यं प्रतिपादितम्, तथा इति शब्दोपादानादिति ॥१३१॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमाह—
१४
जह वा तिलसक्कुलिया बहुएहिँ तिलेहिँ मेलिदा संती । पत्तेयसरीराणं तेह जाण सरीरसंघाया ॥ १३२॥
१. अग्गबीया मूलबीया खंधबीया कञआदर्शों विना । २. समासओ वणफतीजीवा छञ, समासओ वणसईजीवा ॥१३०॥ दा० ।। ठ । ३. वणस्सई० झ । ४. ०बीआ इत्यादि ख, बीएत्यादि ग घ ङ ० बीयेत्यादि च । ५. कोरण्टादयो० ख, कोरिण्टका० ख, ग घ ङ कोरण्टका० च । ६. ०सल्यकी ० ख ग ०शल्लकी० घ ङ । ७. ०शृङ्गाटा-पाठ - शै० क । ८. ०न्ति ? अत आह ख घ ङ । ९. 'अक्षत" ठप्रतौ टिप्पणी । १०. ०सरसवाणं ञ । ११. "लक्षादि" ठपुस्तके टिप्पणी । १२. ०मीसाण ञ । १३. सर्ज्वरसादिस्नेहेन मि० क । १४. मेलिया कप्रतेर्विना । १५. तह हुंति स० क - छपुस्तके विना ।