________________
5
10
15
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
पन्नाश्चक्षुर्ग्राह्याश्च न भवन्ति एकाकारा एव । बादराणां पुनर्द्वे विधाने || १२७|| के पुनस्ते ? इत्यत आह—
११८
पत्तेया साहारण बायरजीवा समासओ दुविहा । बारसविह णेगविहा समासओ छव्विहा होंति ॥ १२८॥
पत्तेया० इत्यादि । बादराः समासतो द्विविधाः - प्रत्येकाः साधारणाश्च । तंत्र पत्र-पुष्प-मूल-फल-स्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्येकजीवाः। साधारणास्तु परस्परानुवेधादनन्तजीवसङ्घातरूपशरीरावस्थानाः । तत्र प्रत्येकशरीरा द्वादशविधानाः । साधारणास्त्वनेकभेदाः । सर्वेऽप्येते समासतः षोढा प्रत्येतव्याः ॥१२८॥ तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाह—
रुक्खा गच्छा गुम्मा लया य वल्ली य पव्वगा चेव । तृण वलय हरिय ओसहि जलरुह कुहणा य बोधव्वा ॥ १२९ ॥
रुक्खा० इत्यादि । वृश्च्यन्त इति वृक्षाः । ते द्विविधाः – एकास्थिका बहुबीजकाश्च । तत्रैकास्थिकाः पिचुमन्दा - ऽऽम्र - कोशम्ब- शाला -ऽङ्कोल्ल-पीलुसल्लक्यादयः । बहुबीजकास्तु उदुम्बर- कपित्था - Sस्थिक-तिन्दुक-बिल्वाऽऽमलक-पनस-दाडिम-मातुलिङ्गादय: १। गेच्छास्तु वृन्ताकी-कर्पासी-जपाआढकी-तुलसी-कैस्तुम्भरी - पिप्पली - नील्यादयः २। गुल्मानि तु नवमालिकासेरियक- 'कोरेण्टक- 'बँन्धुजीव-बाण- - 'करवीर- सिन्दुवार- विचकिल-जाति
१. पुनस्ते बादरविधाने ? इत्यत ख ङ । २. [ त्र ] पुष्प - पत्र - मूल० ङ तत्र पत्रपुष्प-फल-मूल-स्क० ख च । ३. ०नुविद्धानन्त० ग घ ङ च ०नुवेधानन्त० ख । ४. ० भेदप्रतिपादनायाह ख । ५. गुच्छा क ञ ट । ६. अत आरभ्य १४३ गाथापर्यन्तं १३०-१४११४२ अङ्कात्मकगाथात्रयवर्जं द्वादश गाथा: क्वचिदल्प - बहुपाठभेदयुक्ताः प्रज्ञापनोपाङ्ग-प्रथमपदे क्रमशः १ (११? ) ४१-४२-४०-१०२-१०३-९७-९६-९३-८०-८१-९९ अङ्कभाजिन्यः समुपलभ्यन्ते । ७. ०कोशाम्ब० क । ८. ०साला० च । ९. ०शल्लक्या ० क ग घ ङ । १०. ०च्छिक ० ख ०ऽत्थिक० घ ङ । ११. ०तन्दुक० च ० विन्दुक० ख । १२. गुच्छास्तु घ ङ । १३. ०कसुम्भरी ० ग ० कुस्तुम्भरी ० ङ ०कुसुम्भरी० च । १४. ० पिप्पलिनीत्यादयः क, ० पिष्पली - नील्या० ङ च । १५. ०सेरीक० क ०सेरयक० ग । १६. ०कोरिण्टक० ग ० कोरण्टक० घ ङ च । १७. ०बन्धुजीवक० ख ग ङ च ० बन्धुजीवा० घ । १८. ०कणवीर० घ ङ । १९. ० विचिकिल० ख !