________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । पञ्चम उद्देशकः ११७ उक्तश्चतुर्थ उद्देशकः । साम्प्रतं पञ्चमः समारभ्यते । अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके तेजस्कायः प्रतिपादितः, तदनन्तरमविकलसाधुगुणप्रतिपत्तये क्रमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते । किं पुनः क्रमोल्लङ्घनकारणम् ? इत्युच्यते-एष हि वायुरचाक्षुषत्वाद् दुःश्रद्धानः, अतः समधिगताशेषपृथिव्यायेकेन्द्रियप्राणिगणस्वरूपः शिष्यः 5 सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते, स एव च क्रमो येन शिष्या जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावत् प्रतिपत्तुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापः, अतः स एव तावत् प्रतिपाद्यते इति । अनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः । तत्र वनस्पतेः स्वभेदकलापप्रतिपादनाय पूर्वप्रसिद्धार्थाति- 10 देशद्वारेण नियुक्तिकृदाह
पढवीए जे दारा वणप्फर्डए वि होंति ते चेव । नाणत्ती उ विहाणे परिमाणुवभोग-सत्थे य ॥१२६॥
पढवीएत्यादि । यानि पृथ्वीकायसमधिगतये द्वाराण्युक्तानि तान्येव । वनस्पतौ द्रष्टव्यानि, नानात्वं तु प्ररूपणा-परिमाण-उपभोग-शस्त्रेषु चशब्दाद् 15 लक्षणे च द्रष्टव्यमिति ॥१२६॥
तत्रादौ प्ररूपणास्वरूपनिपिनायाहदुविहा वणस्सइजीवा सुहुमा तह बायरा ये लोयम्मि । सुहुमा य सव्वलोए दो चेव य बायरविहाणा ॥१२७॥ दुविहेत्यादि । वनस्पतयो द्विविधाः-सूक्ष्मा बादराश्च । सूक्ष्माः सर्वलोका- 20
१. ०चतुर्थोद्देशकः कप्रतिमृते । २. प्रारभ्यते ख । ३. ०लसुसाधु० ग । ४. ०णमिदम् ? उच्यते च । ५. च इति ख-चपुस्तकयोर्न वर्तते । ६. ०कलापोपेतः, अतः ङ। ७. वणसइकाए वि हुंति ते छ-जआदर्शयोविना । ८. ए( य?) झ । ९. पुढवीए इत्यादि ख, पुढवीतेत्यादि ग । १०. प्ररूपण-परि० ख, प्ररूपणा-प्रमाण० ग । ११. निर्ज्ञानायाह ख । १२. दुविह वणस्सइ० ख छ ठ । १३. वि ञ, उ ठ । १४. दो च्चेव य ख ज झ, दो य भवे बायर० ज ।