________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे इति । ये च तत्र अग्नौ पर्यापद्यन्ते ते प्राणिनः कृमि-पिपीलिका-भ्रमरनकुलादयः तत्र अग्नौ अपद्रान्ति प्राणान्मुञ्चन्तीत्यर्थः । तदेवमग्निसमारम्भे सति न केवलमग्निजन्तूनां विनाशः किन्त्वन्येषामपि पृथ्वी-तण-पत्र-काष्ठ-गोमय
कचवराश्रितानां सम्पातिनां च व्यापत्तिरवश्यम्भाविनीति । अत एव च भगवत्यां 5 भगवतोक्तम्
दो पुरिसा सरिसवया अन्नमन्नेहिं सद्धि अगणिकायं समारंभंति, तत्थ णं एगे पुरिसे अगणिकायं समुज्जालेइ, एगे विज्झवेइ, तत्थ णं के पुरिसे महाकम्मयराए ? → के पुरिसे अप्पकम्मयराए ? –गोयमा ! जे उज्जालेइ से महाकम्मयराए, जे विज्झवेइ से अप्पकम्मयराए । [ ]
तदेवं प्रभूतसत्त्वोपमर्दनकरमग्न्यारम्भं विज्ञाय मनो-वाक्-कायैः कृतकारिता-ऽनुमतिभिश्च तत्परिहार: कार्य इति दर्शयितुमाह
एत्थ सत्थेत्यादि । अत्र अग्निकाये शस्त्रं स्वकाय-परकायभेदभिन्न समारभमाणस्य व्यापारयत इत्येते आरम्भाः पचन-पाचनादयो बन्धहेतुत्वेनाऽपरिज्ञाता भवन्ति । तथा अत्रैव अग्निकाये शस्त्रमसमारभमाणस्येत्येते आरम्भाः 15 परिज्ञाता भवन्ति । यस्यैतेऽग्निकायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति
प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातकर्मेति ब्रवीमि इति पूर्ववदिति ।
शस्त्रपरिज्ञायां चतुर्थोद्देशकटीका समाप्ता ॥ छ ॥ छ ।
१. अग्नावुपद्रान्ति च । २. एव भगवत्यां च, एव भगवतो० ग । ३. → - • एतच्चिह्नस्थ: पाठो घ-ङआदर्शयोरेव । ४. तत एवं प्र० ख, अत एव प्र० च ।
५. ०मर्दनमग्न्या० च । ६. ०माणस्यैते ख । ७. आरम्भा ज्ञाता क । ८. परिज्ञाता ख । ९. समाप्तेति || ख च ।