________________
११५
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । चतुर्थ उद्देशकः वृक्ष-गुल्म-लतावितानादयः, तथा तृण-पत्रनिश्रिता पतङ्गेलिकादयः, तथा काष्ठनिश्रिता घुणोदेहिका-पिपीलिका-ऽण्डादयः, गोमयनिश्रिताः कुन्थुपनकादयः, कचवरः पत्र-तृण-धूलिसमुदायः, तन्निश्रिताः कृमि-कीटपतङ्गादयः । तथा सन्ति विद्यन्ते सम्पतितुम् उत्प्लुत्योत्प्लुत्य गन्तुमागन्तुं वा शीलं येषां ते सम्पातिनः प्राणिनः जीवाः मक्षिका-भ्रमर-पतङ्ग-मशक-पक्षि- 5 वातादयः, एते च सम्पातिनः आहत्य उपेत्य स्वत एव, यदि वा अत्यर्थं कदाचिद्वाऽग्निशिखायां सम्पतन्ति च । तदेवं पृथिव्यादिनिश्रितानां जीवानां यद् भवति तद् दर्शयितुमाह-अगणिं चेत्यादि । रन्धन-पचन-तापनाद्यग्निगुणाथिभिरवश्यमग्निसमारम्भो विधेयः, तत्समारम्भे च पृथिव्यादिनिश्रितानां जीवानामेता वक्ष्यमाणा अवस्था भवन्ति । छान्दसत्वात् तृतीयार्थे द्वितीया । 10 ततश्चायमर्थः-अग्निना स्पृष्टाः छुप्ता एके सङ्घातम् अधिकं गात्रसङ्कोचनं मयूरपिच्छवदापद्यन्ते, चशब्दस्याधिकार्थत्वात् । खलुशब्दोऽवधारणे, अग्नेरेवायं प्रतापो नापरस्येति । यदि वा सप्तम्यर्थे द्वितीया, स्पृष्टशब्दश्च पतितवचनः । ततश्चायमर्थो भवति-अग्नावेव स्पृष्टाः पतिताः एके शलभादयः सङ्घातं सम् एकीभावेनाधिकं गात्रसङ्कोचनम् आपद्यन्ते प्राप्नुवन्ति । ये च तत्र अग्नौ पतिता: 15 सङ्घातमापद्यन्ते ते प्राणिनः तत्र अग्नौ पर्यापद्यन्ते, पर्यापत्तिः सम्मूर्च्छनम्, ऊष्माभिभूता मूर्छामापद्यन्ते इत्यर्थः । अथ किमर्थं सूत्रकृता विभक्तिपरिणामोऽकारि ? इत्युच्यते-मागधदेशीसमनुवृत्तेः, व्याख्याविकल्प दर्शनार्थं वा, अध्याहारादयोऽपि व्याख्याङ्गानीत्यनेन शिष्यो ज्ञापितो भवति । अथ के पुनस्तेऽध्याहारादय इति ? उच्यन्ते-अध्याहारो विपरिणामो व्यवहितकल्पना 20 गुणकल्पना लक्षणा वाक्यभेदश्चेति । इह च द्वितीयाविभक्तेः सप्तमीपरिणामः कृत
१. ०पणकादयः ख ग । २. ०र: तृण-पत्र-धूलि० क-गपुस्तके ऋते । ३. तथा विद्यन्ते च । ४. "चसद्देण वाउजीवा तप्पेरिता वा मसगादि ।" इति चूर्णौ । ५. एके केचन सङ्घा० ग । ६. "चसहा जालं फुसित्ता वि । खलु पूरणे ।'' इति चूर्णौ । ७. ०स्याधिक्यार्थत्वात् क-खआदशौं विना । ८. "अगणिं च खलु पुट्ट त्ति अगणिणा पुट्टा, अग्गि वा फुसित्ता । '' इति सप्तमीमनादृत्य व्याख्यातमस्ति चूणिकृद्भिः । ९. ०भावेन गात्र० ख । १०. ०सङ्कोचम् च । ११. मूर्छनामाप० घ । १२. ०प्रदर्शनाय वा घ ङ ।