________________
११४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे भावः । इत्येवमर्थं च गृद्धो लोको यत् करोति तद् दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभते, तदारम्भेण चाग्निशस्त्रं समारभते, तच्चारभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्तीति । कथं पुनरग्निसमारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्ति ? इति दर्शयितुमाह5 [सू०३७] से बेमि-संति पाणा पुढविणिस्सिता, तणणिस्सिता, पत्तणिस्सिता, कट्ठणिस्सिता, गोमयणिस्सिता, कयवरणिस्सिया । संति संपातिमा पाणा आहच्च संपयंति य ।
अगणिं च खलु पुट्ठा एगे संघातमावज्जंति । जे तत्थ 10 संघातमावज्जति ते तत्थ परियावज्जति । जे तत्थ परियावज्जति ते तत्थ उद्दायंति ।
[सू०३८] एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति । एत्थ सत्थं असमारभमाणस्स इच्चेते
आरंभा परिण्णाता भवंति । 15 [सू०३९] जस्स एते अगणिकम्मसमारंभा परिण्णाता भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ।
[सत्थपरिणाए चउत्थो उद्देसओ सम्मत्तो] से बेमीत्यादि । तदहं ब्रवीमि यथा नानाविधजीवहिंसनमग्निकायसमारम्भेण भवतीति । यथाप्रतिज्ञातार्थं दर्शयति-सन्ति विद्यन्ते प्राणाः 20 जन्तवः पृथिवीकायनिश्रिताः पृथ्वीकायत्वेन परिणता इत्यर्थः, तदाश्रिता वा
कृमि-कुन्थु-पिपीलिका-गण्डूपदा-ऽहि-मण्डूक-वृश्चिक-कर्कटकादयः, तथा
१. भावः । एवमर्थं घ ङ। २. ०ग्निकायसमा० ख । ३. ०हि-माण्डूक-क, हिवृक्षिक- ख । ४. ०कर्कटादयः ख घ ङ।