________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । चतुर्थ उद्देशकः
११३
सोच्चा भगवतो अणगाराणं इहमेगेसिं णातं भवति - एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए ।
इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभेणं अगणिसत्थं समारभमाणे अण्णे asगरूवे पाणे विहिंसति ।
5
लज्जमाणेत्यादि यावत् अण्णे वऽणेगरूवे पाणे विहिंसइति । अस्य ग्रन्थस्योक्तार्थैस्यायमर्थो लेशतः प्रदर्श्यते - लज्जमानाः स्वागमोक्तानुष्ठानं कुर्वाणाः सावद्यानुष्ठानेन वा लज्जां कुर्वाणाः पृथग् विभिन्नाः शाक्यादयः । पश्य इति संयमानुष्ठाने स्थिरीकरणार्थं शिष्यस्य चोदना । अनगारा वयम् इत्येके प्रवदमानाः, किं तैर्विरूपमाचरितं येनैवं प्रदर्श्यन्ते ? इति दर्शयति-यदिदं विरूपरूपैः 10 शस्त्रैरग्निकर्मसमारम्भेणाग्निशस्त्रं समारभमाणः सन् अन्याननेकरूपान् प्राणिनो विविधं हिनस्ति विहिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा - अस्य चैव परिफल्गुजीवितस्य परिवन्दन - मानन - पूजनार्थं जाति - मरण - मोचनार्थं दुःखप्रतिघातहेतुं यत् करोति तद् दर्शयति-स परिवन्दनाद्यर्थी स्वत एवाग्निशस्त्रं समारभते, अन्यैश्चाग्निशस्त्रं समारम्भयति, तथा - ऽन्यांश्चाग्निशस्त्रं समारभमाणान् 15 समनुजानीते । तंच्चाग्निसमारम्भणं से तस्य सुखलिप्सोरमुत्रान्यत्र चाहिताय भवति, तथा तदेव च तस्याबोधिलाभाय भवति । स इति यस्येत्येतदसदाचरणं प्रदर्शितं स तु शिष्यः तद् अग्निसमारम्भणं पापायेत्येवं सम्बुध्यमानः आदानीयं ग्राह्यं सम्यग्दर्शनादि सैम्यगुत्थाय अभ्युपगम्य श्रुत्वा भगवदन्तिकेऽ नगाराणां वा इहैकेषां साधूनां ज्ञातं भवति । किं तद् ? दर्शयति- एषः अग्निसमारम्भः ग्रन्थः 20 कर्महेतुत्वात्, एष एव मोहः, एष एव मारः, एष एव नरकः, तद्धेतुत्वादिति
१. विहिंसंति ख ङ । २. ०र्थस्य लेशतोऽयमर्थः प्रद० क-गप्रती विना । ३. शिष्यचोदना च । ४ ०न्त इति ? यदिदं क घ ङ । ५. प्राणिनो विहिनस्ति क विना । ६. अस्यैव परि० घ ङ । ७. जाति - जरा मर० घ ङ । ८. ०ते, तथाऽन्यैश्चा० घ ङ च । ९. तच्चाग्नेः समा० कपुस्तकादृते । १०. तदेव तस्या० क घ ङ । ११. यस्येति तदसदा० क ख, यस्यैतदसदा० घ ङ च । १२. समुत्थाय घ ङ ।