SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ११२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे मद्य-विषयादिप्रमादैरसंयतः गुणार्थी रन्धन-पचन-प्रकाश-तापनाद्यग्निगुणप्रयोजनवान् स दुष्प्रणिहितमनो-वाक्-कायोऽग्निशस्त्रसमारम्भतया प्राणिनां दण्डहेतुत्वाद् दण्ड: प्रकर्षेणोच्यते प्रोच्यते, आयुघृतादिव्यपदेशवदिति । यतश्चैवं ततः किं कर्तव्यम् ? इत्यत आह-तं परिन्नाय मेहावी । तम् अग्निकायविषयं 5 समारम्भं दण्डफलं परिज्ञाय ज्ञपरिज्ञा-प्रत्याख्यानपरिज्ञाभ्यां मेधावी मर्यादा व्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मन्या चिनोतीति । तमेव प्रकारं दर्शयितुमाह-इयाणीमित्यादि यमहम् अग्निसमारम्भं विषयप्रमादेनाकुलीकृतान्त:करणः सन् पूर्वमकार्षं तमिदानीं जिनवचनोपलब्धाग्निसमारम्भ दण्डतत्त्व: नो करोमीति । अन्ये त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह10 [सू०३४] लज्जमाणा पुढो पास । 'अणगारा मो' त्ति एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभेणं अगणिसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । [सू०३५ ] तत्थ खलु भगवता परिण्णा पवेदिता । 15 इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती मरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव अगणिसत्थं समारभति, अण्णेहिं वा अगणिसत्थं समारभावेति, अण्णे वा अगणिसत्थं समारभमाणे समगुजाणति । तं से अहिताए, तं से अबोधीए। 20 [सू०३६] से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए १. प्रकाशा-ऽऽताप० घ ङ च । २. ०द्यग्निप्रयो० ख । ३. "अहवा नाणादिगुणट्ठी'' इति चूर्णौ । ४. इत्याह ख च । ५. अग्निकायसमारम्भं ग, अग्निकायविषयमारम्भं च। ६. चिनोतीत्यादि । ख, चिनोति । ग । ७. दर्शयन्नाह ग ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy