________________
११२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे मद्य-विषयादिप्रमादैरसंयतः गुणार्थी रन्धन-पचन-प्रकाश-तापनाद्यग्निगुणप्रयोजनवान् स दुष्प्रणिहितमनो-वाक्-कायोऽग्निशस्त्रसमारम्भतया प्राणिनां दण्डहेतुत्वाद् दण्ड: प्रकर्षेणोच्यते प्रोच्यते, आयुघृतादिव्यपदेशवदिति । यतश्चैवं
ततः किं कर्तव्यम् ? इत्यत आह-तं परिन्नाय मेहावी । तम् अग्निकायविषयं 5 समारम्भं दण्डफलं परिज्ञाय ज्ञपरिज्ञा-प्रत्याख्यानपरिज्ञाभ्यां मेधावी मर्यादा
व्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मन्या चिनोतीति । तमेव प्रकारं दर्शयितुमाह-इयाणीमित्यादि यमहम् अग्निसमारम्भं विषयप्रमादेनाकुलीकृतान्त:करणः सन् पूर्वमकार्षं तमिदानीं जिनवचनोपलब्धाग्निसमारम्भ
दण्डतत्त्व: नो करोमीति । अन्ये त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह10 [सू०३४] लज्जमाणा पुढो पास । 'अणगारा मो' त्ति
एगे पवदमाणा, जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारंभेणं अगणिसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ।
[सू०३५ ] तत्थ खलु भगवता परिण्णा पवेदिता । 15 इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती
मरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव अगणिसत्थं समारभति, अण्णेहिं वा अगणिसत्थं समारभावेति, अण्णे वा अगणिसत्थं समारभमाणे समगुजाणति । तं से
अहिताए, तं से अबोधीए। 20 [सू०३६] से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए
१. प्रकाशा-ऽऽताप० घ ङ च । २. ०द्यग्निप्रयो० ख । ३. "अहवा नाणादिगुणट्ठी'' इति चूर्णौ । ४. इत्याह ख च । ५. अग्निकायसमारम्भं ग, अग्निकायविषयमारम्भं च। ६. चिनोतीत्यादि । ख, चिनोति । ग । ७. दर्शयन्नाह ग ।