________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । चतुर्थ उद्देशकः
१११
कैः पुनरिदमेवमुपलब्धम् ? इत्यत आह- वीरेहीत्यादि, अथवा वक्तृप्रसिद्धौ सत्यां वाक्यप्रसिद्धिर्भवतीत्यतोऽपदिश्यते - वीरेहीत्यादि । घनघातिकर्मसङ्घातविदारणानन्तरप्राप्तातुलकेवलश्रिया विराजन्त इति वीराः तीर्थकृतस्तैर्वीरैरर्थतो दृष्टमेतद् गणधरैश्च सूत्रतोऽग्निशस्त्रं दृष्टम् संयमस्वरूपं चेति । किं पुनरनुष्ठायेदं तैरुपलब्धम् ? इत्यत्रोच्यते-अभिभूय त्ति, अभिभवो नामादिश्चतुर्धा । 5 द्रव्याभिभवो रिपुसेनादिपराजयः, आदित्यतेजसा वा चन्द्र-ग्रह-नक्षत्रादितेजोऽभिभवः । भावाभिभवस्तु परीषहोपसर्गानीक -ज्ञान-दर्शनावरण- मोहाऽन्तरायकर्मनिर्दलनम्, परीषहोपसर्गादिसेनाविजयाद् विमलं चरणम्, चरणशुद्धेर्ज्ञानावरणादिकर्मक्षयः, तत्क्षयाद् निरावरणमप्रतिहतमशेषज्ञेयग्राहि केवलज्ञानमुपजायते । इदमुक्तं भवति - परीषहोपसर्ग - ज्ञान-दर्शनावरणीय-मोहा- 10 ऽन्तरायाण्यभिभूय केवलमुत्पाद्य तैरुपलब्धमिति । यथाभूतै स्तैरिदमुपलब्धं तद् दर्शयतित - संजएहिं ति, सम्यग् यता: संयताः प्राणातिपातादिभ्यः तैः । तथा सदा सर्वकालं चरणप्रतिपत्तौ मूलोत्तरगुणभेदायां निरतिचारत्वाद् यत्नवन्तस्तैः । 'तथा सदा सर्वकालं न विद्यते प्रमादः मद्य-विषय-कषाय-विकथा - निद्राख्यो येषां तेऽप्रमत्तास्तैः । एवम्भूतैर्महावीरैः केवलज्ञानचक्षुषा इदं दीर्घलोकशस्त्रम् अशस्त्रं 15 च संयमः दृष्टम् उपलब्धमिति । अत्र च यत्नग्रहणाद् ईर्यासमित्यादयो गुणा गृह्यन्ते, अप्रमादग्रहणात् तु मद्यादिनिवृत्तिरिति । तदेवमेतत् प्रधानपुरुषप्रतिपादितमग्निशस्त्रमपायदर्शनाद् अप्रमत्तैः साधुभिः परिहार्यमिति ।
एवं प्रत्यक्षीकृतानेकदोषजालमप्यग्निशस्त्रमुपभोगलोभात् प्रमादवशगा ये न परिहरन्ति तानुद्दिश्य विपाकदर्शनायाह-जे पमत्तेत्यादि । यो हि प्रमत्तो भवति 20
१. अथवा सद्वक्तृ० घ ङ । २. ०त्यत उपदिश्यते ग । ३. तीर्थकरास्तै ० ख च । ४. सूत्रतो दृष्टमग्निशस्त्रं संय० ख च । ५. इत्युच्यते ख च । ६. अभिभूयेति घ ङ । ७. ०पसर्गसेना० घ ङ च । ८. केवलमुप० क । ९. " सदेव मणुया - ऽसुराए परिसाए मज्झयारे परतित्थिए अभिभूय" इति चूर्णावर्थाधिक्यम् । १०. ०स्तैरेवमुप० च । ११. ०ति - सम्यग् घ ङ । १२. त्वाद् यता यत्न० ग । १३. तथा सर्वकालं घ ङ च । १४. " एतं ति छज्जीवनिकायचक्कं अगणिजीवत्तं वा'' इति चूर्णो । १५. “ दिनं दट्टु अक्खातं " चूर्णो । १६. यतग्रहणाद् ग । १७. "अप्पमत्तग्गहणा इंदियप्पमादे वज्जेति" चूर्णौ । १८. पमत्ते इत्यादि घ ङ ।