________________
११०
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे जीवकाया बहवः । [बादराग्नेः ?] भवस्थितिरपि त्रीण्यहोरात्राणि स्वल्पा, इतरेषां पृथिवी-अब्-वायु-वनस्पतीनां यथाक्रमं द्वाविंशति-सप्त-त्रि-दशवर्षसहस्रपरिमाणा दीर्घा अवसेयेति । अतो दीर्घलोकः पृथिव्यादिः, तस्य शस्त्रम्
अग्निकायः, तस्य क्षेत्रज्ञः निपुणः अग्निकायं वर्णादितो जानातीत्यर्थः । खेदज्ञो 5 वा, खेदः तद्व्यापारः सर्वसत्त्वानां दहनात्मकः पाकाद्यनेकशक्तिकलापोपचितः प्रवरमणिरिव जाज्वल्यमानो लब्धाग्निव्यपदेशो यतीनामनारम्भणीयः, तमेवंविधं खेदम् अग्निव्यापारं जानातीति खेदज्ञः । अतो य एव दीर्घलोकशस्त्रखेदज्ञः स एव अशस्त्रस्य सप्तदशभेदस्य संयमस्य खेदज्ञः, संयमो हि न कञ्चिज्जीवं
व्यापादयति अतोऽशस्त्रम् । एवमनेन संयमेन सर्वसत्त्वाभयप्रदायिनाऽनुष्ठीय10 मानेनाग्निजीवविषयः समारम्भः शक्यः परिहर्तुं पृथिव्यादिकायसमारम्भश्चेति,
एवमसौ संयमे निपुणमतिर्भवति । ततश्च निपुणमतित्वाद् विदितपरमार्थोऽग्निसमारम्भाद् व्यावृत्य संयमानुष्ठाने प्रवर्तते ।
इदानीं गतप्रत्यागतलक्षणेनाविनाभावित्वप्रदर्शनार्थं विपर्ययेण सूत्रावयवपरामर्श करोति-जे असत्थस्सेत्यादि, यश्च अशस्त्रे संयमे निपुणः स खलु 15 दीर्घलोकशस्त्रस्य अग्नेः क्षेत्रज्ञः खेदज्ञो वा । संयमपूर्वकं ह्यग्निविषय
खेदज्ञत्वम्, अग्निविषयखेदज्ञतापूर्वकं च संयमानुष्ठानम्, अन्यथा तदसम्भव एव इत्येतद् गत-प्रत्यागतफलमाविर्भावितं भवति । ___[सू०३३ ] वीरेहि एयं अभिभूय दिलृ संजतेहिं सता
जतेहिं सदा अप्पमत्तेहिं । जे पमत्ते गुणट्ठिते से हु दंडे 20 पवुच्चति । तं परिणाय मेहावी इदाणी णो जमहं पुव्वम
कासी पमादेणं ।
१. "ठिती वि अट्टाइज्जा राइंदिया'' इति चूणौं, "तिन्नेव अहोरत्ता उक्कोसेण वियाहिया । आउठिई तेऊणं अंतोमहत्तं जहन्नयं ।' उ० अ० ३६ गा० ११३ ।। २. ०षांत प० ख । ३. ०खेदज्ञानपूर्वकं च । ४. ०ष्ठानं च, अन्य० घ । ५. ०वितमिति । कैः ग ।