________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । चतुर्थ उद्देशकः
पडुप्पप्पन्नवणस्सइकाइयाणं नत्थि निल्लेवणा । [ ]
तथा शरीरोच्छ्रयाच्च दीर्घो वनस्पतिः
वणस्सइकाइयाणं भंते केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! साइरेगं जोयणसहस्सं सरीरोगाहणा । [ ]
१०९
-
न तथाऽन्येषामेकेन्द्रियाणाम् । अतः स्थितमेतत् - सर्वथा दीर्घलोको 5 वनस्पतिरिति । अस्य च शस्त्रमग्निः, यस्मात् स हि प्रवृद्धज्वालाकलापाकुलः सकलतरुगणप्रध्वंसनाय प्रभवति, अतोऽसौ तदुत्सादकत्वात् शस्त्रम् । ननु च सर्वलोकप्रसिद्ध्या कस्मादग्निरेव नोक्तः ? किं वा प्रयोजनमुररीकृत्योक्तं दीर्घलोकशस्त्रमिति ? अत्रोच्यते - प्रेक्षापूर्वकारितया, न निरभिप्रायमेतत् कृतमिति, यस्मादयमुत्पाद्यमानो ज्वाल्यमानो वा हव्यवाहः समस्तभूतग्रामघाताय प्रवर्तते, 10 वनस्पतिदाहप्रवृत्तस्तु बहुविधसत्त्वसंहतिविनाशकारी विशेषतः स्यात्, यतो वनस्पतौ कृमि-पिपीलिका-भ्रमर-कपोत-श्वापदादयः सम्भवन्ति, तथा पृथिव्यपि तरुकोटरव्यवस्थिता स्यात्, आपोऽप्यवश्यायरूपाः, वायुरपीषच्चञ्चलस्वभावकोमलकिशलयानुसारी सम्भाव्यते, तदेवमग्निसमारम्भप्रवृत्त एैतावतो जीवान् नाशयति, अस्यार्थस्य सूचनाय दीर्घलोकशस्त्रग्रहणमकरोत् सूत्रकार इति, 15 तथा चोक्तम्—
जायतेजं न इच्छंति, पावगं जलइत्तए । तिक्खमण्णयरं सत्थं, सव्वओ वि दुरासयं ॥ पाईणं पडिणं वा वि, उड्डुं अणुदिसामवि । अहे दाहिणओ वा वि, दहे उत्तरओ विय ॥ भूयाणमेस माघाओ, हव्ववाहो न संसओ । तं पव-पयावट्ठा, संजया किंचि नारभे ॥ [
1
अथवा बादरतेजस्कायाः पर्याप्तकाः स्तोकाः, शेषाः पृथिव्यादयो
१. ० ज्वालामालाकुलः च । २ ४. पातीणं च । ५. उड्डमणु० क ग । च । ८. पतीव० च ।
० किसलया० ख घ ङ । ३. एतान् जीवान् ख । ६. यावि क । ७. भूयाणं एस ख घ ङ भूयाण एस
20