________________
१०८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे प्रत्ययसिद्धस्याभ्याख्यानं भवतः प्राप्तम् । ‘एवमस्तु' इति चेत्, तन्नेति दर्शयतिनेव अत्ताणं अब्भाइक्खेज्जा नैव आत्मानं शरीराधिष्ठातारं ज्ञानगुणं प्रत्यात्मसंवेद्यं प्रत्याचक्षीत, तस्य शरीराधिष्ठातृत्वेन 'आहतमिदं शरीरं केनचिदभिसन्धिमता तथा त्यक्तमिदं शरीरं केनचिदभिसन्धिमतैव' इत्येवमादिभिर्हेतभिः प्रसाधितत्वात्, न च प्रसाधितसाधनं पिष्टपेषणवद् विद्वज्जनमनांसि रञ्जयति । एवं च सत्यात्मवत्प्रसाधितमग्निलोकं यः प्रत्याचक्षीत सोऽतिसाहसिक आत्मानम् अभ्याख्याति निराकरोति । यश्चात्माभ्याख्यानप्रवृत्तः स सदैवाग्निलोकमभ्याख्याति, सामान्यपूर्वकत्वाद् विशेषाणाम् । सति
ह्यात्मसामान्ये पृथिव्याद्यात्मविभागः सिद्धयति, नान्यथा, सामान्यस्य विशेष10 व्यापकत्वात्, व्यापकविनिवृत्तौ च व्याप्यस्याप्यवश्यम्भाविनी विनिवृत्तिरिति कृत्वा । एवमयमग्निलोकः सामान्यात्मवद् नाभ्याख्यातव्य इति प्रदर्शितम् ।
अधुनाऽग्निजीवप्रतिपत्तौ सत्यां तद्विषयसमारम्भकटुक फलपरिहारोपन्यासाय सूत्रमाह-जे दीहेत्यादि । य इति मुमुक्षुः, दीर्घलोकः वनस्पतिः,
यस्माद् असौ कायस्थित्या परिमाणेन शरीरोच्छ्रयेण च शेषैकेन्द्रियेभ्यो दीर्घा 15 वर्तते, तथाहि-कायस्थित्या तावत्
वणस्सइकाइए णं भंते ! वणस्सइकाइए त्ति कालओ केवचिरं होइ ? गोयमा ! अणंतं कालं, अणंताओ उस्सप्पिणि-अवसप्पिणीओ, खेत्तओ अणंता लोया, असंखेज्जा पोग्गलपरियट्टा, ते णं पुग्गलपरियट्टा आवलियाए असंखेज्जइभागे। [ ]
परिमाणतस्तुपडुप्पन्नवणस्सइकाइयाणं भंते ! केवतिकालस्स निल्लेवणा सिया ? गोयमा !
१. ज्ञानगुणप्रत्या० क, ज्ञानमुख्यगुणप्रत्या० च । २. ०तप्रसाधनं ख च । ३. ०प्रवत्तः सदैवाग्नि० क ग, प्रवत्तः स एवाग्नि० ख, प्रवत्तः, स सदैवाग्नि० च । ४. ह्यात्मन्येव क । ५. ०ग्निप्रति० ख । ६. तत्र हि ख । ७. ०काइय त्ति ख, ०कातिते त्ति ग। ८. ०णि-ओसप्पिणीओ च । ९. "अणंता लोया इति कोऽर्थः ? अनन्तलोके पु ये प्रदेशास्तैस्तुल्यता समयानाम् एवं च एतावान् कालो भवति । एतावत्कालेन कियन्तः पुद्गलपरावर्ता भवन्ति ? इत्याह-असंखेज्जा इति । असङख्यातं बहधा इत्याह-ते णं इति ।" जे०वि०प० । १०. ०णं हं केव० क । ११. “निल्लेवणा इति अस्माल्लोकादुद्धारः ।" जै०वि०प० ।