SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । चतुर्थ उद्देशकः १०७ सेसा इत्यादि । उक्तशेषाणि द्वाराणि तान्येव यानि पृथिव्युद्देशकेऽभिहितानि । एवम् उक्तप्रकारेण तेजस्कायोद्देशके नियुक्तिः कीर्तिता व्यावणिता भवतीति ॥१२५।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम् [सू०३२] से बेमि-णेव सयं लोगं अब्भाइक्खेजा, 5 णेव अत्ताणं अब्भाइक्खेजा । जे लोगं अब्भाइक्खति से अत्ताणं अब्भाइक्खति, जे अत्ताणं अब्भाइक्खति से लोगं अब्भाइक्खति । जे दीहलोगसत्थस्स खेत्तण्णे से असत्थस्स खेत्तण्णे, जे असत्थस्स खेत्तण्णे से दीहलोगसत्थस्स खेत्तण्णे। 10 से बेमीत्यादि । अस्य च सम्बन्धः प्राग्वद् वाच्य इति । येन मया सामान्यात्मपदार्थ-पृथिव्यप्कायजीवप्रविभागव्यावर्णनमकारि स एवाहमव्यवच्छिन्नज्ञानप्रवाहस्तेजोजीवस्वरूपोपलम्भसमुपजनितजिनवचनसम्मदो ब्रवीमि । किं पुनस्तद् ? इति दर्शयति नेवेत्यादि । इह हि प्रकरणसम्बन्धाद् लोकशब्देन अग्निलोको- 15 ऽभिधित्सितः । अतस्तमग्निलोकं जीवत्वेन नैव स्वयम् आत्मनाऽभ्याचक्षीत नैवापह्नवीतेत्यर्थः । एतदभ्याख्याने ह्यात्मनोऽपि ज्ञानादिगुणकलापानुमितस्याभ्याख्यानमवाप्नोति, अथ प्राक् प्रसाधितत्वाद् अभ्याख्यानं नैवात्मनो न्याय्यम् । एवं तेजस्कायस्यापि प्रसाधितत्वाद् अभ्याख्यानं क्रियमाणं न युक्तिपथमवतरति । 20 एवं चास्य युक्त्यागमबलप्रसिद्धस्याभ्याख्याने क्रियमाणे सत्यात्मनोऽप्यहं १. सेसाणीत्यादि ख च, सेसाईत्यादि ग, सेसाई इत्यादि घ ङ। २. तेजस्कायाभिधानोद्देशके ख ग च । ३. इति एतत् ख-चआदर्शयोर्न वर्तते । ४. अग्निकायलोको० ख । ५. ०नमाप्नोति क । ६. अथ च प्राक् ग च । ७. युक्तागम० घ ङ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy