________________
१०६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे आत्मनोऽन्विषन्तः परस्य बादराग्निकायस्य दुःखम् उदीरयन्ति उत्पादयन्तीति ॥१२२॥ साम्प्रतं शस्त्रद्वारम्, तच्च द्रव्य-भावभेदाद् द्विधा । द्रव्यशस्त्रमपि समास-विभागभेदाद् द्विधैव । तत्र समासतो द्रव्यशस्त्रप्रतिपादनायाह
पुढवी य आउकाओ उल्ला ये वणस्सई तसा पाणा । बायरतेडक्वाए एयं तु समासओ सत्थं ॥१२३॥
पुढवीत्यादि । पृथ्वी धूलिः, अप्कायश्च, सार्द्रश्च वनस्पतिः, सा प्राणिनः, एतद् बादरतेजस्कायजन्तूनां समासतः सामान्येन शस्त्रमिति ॥१२३॥ विभागतो द्रव्यशस्त्रमाह
किंची सकायसत्थं किंची परकाय तदुभयं किंचि । 10 एयं तु दव्वसत्थं भावे अस्संजमो सत्थं ॥१२४॥ दारं ॥
किंचीत्यादि । किञ्चित् शस्त्रं स्वकाय एव, अग्निकाय एव अग्निकायस्य, तद्यथा-तार्णोऽग्निः पार्णाग्नेः शस्त्रमिति । किञ्चिच्च परकायशस्त्रम् उदकादि । उभयशस्त्रं पुनः तुष-करीषादिव्यतिमिश्रोऽग्निरपराग्नेः । तुशब्दो
भावशस्त्रापेक्षया विशेषणार्थः, एतत् तु पूर्वोक्तं समास-विभागरूपं पृथ्वी15 स्वकायादि द्रव्यशस्त्रमिति । भावशस्त्रं दर्शयति-भावशस्त्रम् असंयमः दुष्प्रणिहितमनोवाक्कायलक्षण इति ॥१२४॥ उक्तव्यतिरिक्तद्वारातिदेशद्वारेणोपसञ्जिहीर्षुनियुक्तिकृदाह
सेसाइं दाराइं ताई जाइं हवंति पुढवीए । एवं तेउद्देसे निज्जुत्ती कित्तिया एसा॥१२५॥
१. आत्मनोऽन्वेषयन्तः क-गपुस्तकाभ्यामृते । २. ०भावशस्त्रभेदाद् क-खप्रती विना । ३. समासवि[ भाग ]शस्त्रभेदाद् क । ४. पुढवी आउकाए ख ठ, पुढवीए आउक्काए क । ५. त ज । ६. एवं ठ । ७. आर्द्रश्च ख घ ङ। ८. त्रसाश्च प्राणिनः ग च । ९. एवं बादर० च । १०. ०शस्त्रप्रतिपादनायाह ख । ११. भावे य असंजमो ठ । १२. गाहा ज । १३. ० श्रोऽग्निः पराग्नेः ख । १४. भावे शस्त्रम् क-चपुस्तके ऋते । १५. इमाइँ ज । १६. एसा ॥१२५॥ प्रथमे चतुर्थोद्देशकनियुक्तिः ॥छ।। झ, एसा ॥१.२५।। अध्य०१ उद्दे० ४ ॥ठ॥ .