________________
१०५
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । चतुर्थ उद्देशकः जे बायरपज्जत्ता पलियस्स असंखभागमेत्ता ते । सेसा तिन्नि वि रासी वीसुं लोया असंखेज्जा ॥१२०॥ दारं ॥
जे बायरेत्यादि । ये बादरपर्याप्तानलजीवाः क्षेत्रपल्योपमासङ्ख्येयभागमात्रवर्तिप्रदेशराशिप्रमाणा भवन्ति ते पुनर्बादरपृथिवीकायपर्याप्तकेभ्योऽसङ्ख्येयगुणहीनाः । शेषास्त्रयोऽपि राशयः पृथ्वीकायवद् भावनीयाः, किन्तु 5 बादरपृथ्वीकायापर्याप्तकेभ्यो बादराग्न्यपर्याप्तका असङ्ख्येयगुणहीनाः, सूक्ष्मपृथ्वीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः, सूक्ष्मपृथिवीकायपर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति ॥१२०॥ साम्प्रतमुपभोगद्वारमाहडहणे पेयावणे पगासणे य भत्तकरणे य सेए य ।
10 बायरतेउक्काए उवभोगगुणा मणुस्साणं ॥१२१॥
दहणेत्यादि । दहनं शरीरावयवस्य वाताद्यपनयनार्थम्, प्रकृष्टं तापनं प्रतापनं शीतापनोदाय, प्रकाशकरणम् उद्द्योतकरणं प्रदीपादिना, भक्तकरणम् ओदनादिरन्धनम्, स्वेदः ज्वर-विसूचिकादीनाम्, इत्येवमादिष्वनेकप्रयोजनेषपस्थितेषु मनुष्याणां बादरतेजस्कायविषया उपभोगरूपा गुणा उपभोगगुणा 15 भवन्तीति ॥१२१।। तदेवमेवमादिभिः कारणैरुपस्थितैः सततमारम्भप्रवृत्ता गृहिणो यत्याभासा वा सुखैषिणस्तेजस्कायजन्तून् हिंसन्तीति दर्शयितुमाह
एएहिँ कारणेहिं हिंसते तेउकाइए जीवे ।
सायं गवेसमाणा परस्स दुक्खं उदीरेंति ॥१२२॥ दारं ॥ __ एए० इत्यादि । एतैः दहनादिभिः कारणैस्तेजस्कायिकान् जीवान् 20 हिंसन्ति इति सङ्घट्टन-परितापन-अपद्रावणानि कुर्वन्ति, सातं सुखं तद्
१. उ छ विनाऽन्यत्र । २. वीस क । ३. ०प्ता अनल० ग । ४. ०राशिपरिमाणा ख ग च । ५. पयावण ख छ ज ठ। ६. य सेए य भत्तकरणे य ख ठ । ७. शरीराद्यवयवस्य ग। ८. कारणैः समुपस्थितैः च, कारणैः सतत० ख । ९. सुखैक्षिण० च । १०. हिंसंती ते० ख ज, हिंसंति उ ते० ज झ ठ । ११. एएहीत्यादि क विना । १२. इति इति ख-चआदर्शयोर्नास्ति । १३. सङ्घाटन० घ । १४. कुर्वन्तीति सातं घ ङ ।