________________
5
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
गन्ध-रस-स्पर्शादेशैः सहस्राग्रशो भिद्यमानाः सङ्ख्येययोनिप्रमुखशतसहस्रभेदपरिमाणा भवन्ति । तत्रैषां संवृता योनिरुष्णा च सचित्ता - ऽचित्त - मिश्रभेदात् त्रिधा, सप्त चैषां योनिलक्षा भवन्ति । साम्प्रतं चशब्दसमुच्चितं लक्षणद्वारमाहजह देहपरीणामो रत्तिं खज्जोयगस्स सा उवमा ।
जरियस्स वै जा उण्हा ऍसुवमा तेउजीवाणं ॥ ११९ ॥ दारं ॥
१०४
हेत्यादि । यथा इति दृष्टान्तोपन्यासार्थः । देहपरिणामः प्रतिविशिष्टा शरीरशक्तिः । रात्रौ इति विशिष्टकालनिर्देशः । खद्योतक इति प्राणिविशेषपरिग्रहः। यथा तस्यासौ देहपरिणामो जीवप्रयोगविनिर्वृत्तशक्तिराविश्चकास्ति एवमङ्गारादीनामपि प्रतिविशिष्टा प्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषा10 विर्भावितेति । यथा वा ज्वरोष्मा जीवप्रयोगं नातिवर्तते, जीवाधिष्ठितशरीरकानुपात्येव भवति एषैवोपमाऽऽग्नेयजन्तूनाम्, न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते । एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता मुक्तकग्रन्थोपपत्तिमुखेन प्रतिपादिता । सम्प्रति प्रयोगमारोप्यते अयमेवार्थ:- जीवशरीराण्यङ्गारादयः, छेद्यत्वादिहेतुगणान्वितत्वात् सास्ना-विषाणादिसङ्घातवत् । तथा आत्म15 संयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः, शरीरस्थत्वात्, खद्योतकदेहपरिणामवत् । तथा आत्मसम्प्रयोगपूर्वकोऽङ्गारादीनामूष्मा, शरीरस्थत्वात्, ज्वरोष्मवत् । न चादित्यादिभिरनेकान्तः, सर्वेषामात्मप्रयोगपूर्वकं यत उष्णपरिणामभाक्त्वम्, तस्मान्नानेकान्तः । तथा सचेतनं तेज:, यथायोग्याहारोपादानेन वृद्धिविशेष-तद्विकारवत्त्वात् पुरुषवत् । एवमादिलक्षणॆनाऽऽग्नेयजन्तवोऽवसेया 20 इति । उक्तं लक्षणद्वारम् । तदनन्तरं परिमाणद्वारमाह
१. ० प्रमुखयोनिशत० ख । २. ०त्रिधैव ख । ३. व जह उण्हा झ, वा जउम्हा ञ, य जह उम्हा ठ । ४. तओवमा क विना, ततोवमा ञ । ५. ०गनिर्वृत्त० घ ङ च । ६. ० शरीरानुपात्येव, एषै ० ख । ७. "आचारे - शस्त्रपरिज्ञाया उद्दे० ४ मुक्तकं मुत्कलम् " स०वि०प०, “मुक्व( क्त ) क इति मुक्व (त्क) लः, वृत्तिकारेणेति शेषः " जै०वि०प०, मुक्तकलग्रन्थो० च । ८. तथा इति ख विनाऽन्यत्र नास्ति । ९. उष्णपरमाणुभाक्त्वम् ख । १०. ०द्विकारत्वात् ख-च विना । ११. एवमादिना ल० ग च । १२. ० नाग्नेया जन्तवो निश्चेया इति च ० नाग्नेयजन्तवो निश्चेया इति ख । १३. लक्षणम् । अधुना परि० ख ।