________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । चतुर्थ उद्देशकः
अग्निभेदाः पञ्च भवन्तीति । एते च बादराग्नयः स्वस्थानाङ्गीकरणाद् मनुष्यक्षेत्रेऽर्द्धतृतीयेषु द्वीप- समुद्रेष्वप्यव्याघातेन पञ्चदशसु कर्मभूमिषु व्याघाते संति पञ्चसु विदेहेषु नान्यत्र, उपपाताङ्गीकरणेन लोकासङ्ख्येयभागवर्तिनः ।
तथा चागम:
उववाएणं दोसुद्धकवाडे तिरियलोयते य । [
→। अस्याऽयमर्थः - ← अर्द्ध तृतीयद्वीप - समुद्रबाहल्ये पूर्वीऽपरदक्षिणोत्तरस्वयम्भुरमणपर्यन्ताऽऽयते ऊंर्ध्वा ऽधोलोकप्रमाणे कपाटे, तयोः प्रविष्टा बादराग्निषूत्पद्यमानकास्तद्व्यपदेशं लभन्ते, तथा तिरियलोयतट्टे यत्ति तिर्यग्लोकस्थालके 'चे व्यवस्थितो बादराग्निषूत्पद्यमानो बादराग्निव्यपदेशभाग् भवति । अन्ये तु व्याचक्षते -तयोस्तिष्ठतीति तत्स्थः, तिर्यग्लोकश्चासौ तत्स्थश्च 10 तिर्यग्लोकतत्स्थः, तत्र च स्थित उत्पित्सुर्बादराग्निव्यपदेशमासादयति । अस्मिश्च व्याख्याने कपाटान्तर्गत एव गृह्यते, स च द्वयोर्ध्वकपाटयोरित्यनेनैवोपात्त इति तद्व्याख्यानाभिप्रायं न विद्मः । कपाटस्थापना चेयम् - समुद्घातेन सर्वलोकवर्तिनः ते च पृथिव्यादयो मारणान्तिकसमुद्घातेन समवहता बादराग्निषूत्पद्यमानास्तद्व्यपदेशभाजः सर्वलोकव्यापिनो भवन्ति । यत्र च बादरा: 15 पर्याप्तकास्तत्रैव बादरा अपर्याप्तकाः, तन्निश्रया ं तेषामुत्पद्यमानत्वात् । तदेवं सूक्ष्मा बादराश्च पर्याप्तका - ऽपर्याप्तकभेदेन प्रत्येकं द्विधा भवन्ति । एते च वर्ण
-
१०३
1
5
१. " से किं तं बादरतेउकाइया ? बादरतेउकाइया अणेगविहा पण्णत्ता, तं जहा - इंगाले जाला मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विज्जू असणी णिग्घाए संघरिससमुट्ठिए सूरकंतमणिणिस्सिए, जे यावन्ने तहप्पगारे ।" (प्रज्ञा० प० २९ सू० १७ ) इति प्रज्ञापनायामनेकविधत्वमुपलभ्यते तेजस्कायस्य तथोत्तराध्ययनेषु जीवाऽजीवविभक्त्याख्ये पत्रिंशत्तमेऽध्ययने - बायरा जे उ पज्जत्ता, गहा ते वियाहिया । इंगाले मुम्मुरे अगणी, अच्चि जाला तहेव य ॥ १०९ ॥ उक्का विज्जू य बोधव्वा णेगहा एवमायओ ॥ ११० पू० ।। २. ०ष्वव्याघातेन क ख विना । ३. 'व्याघात इति सुसमादौ स्निग्धत्वादिना भरतादौ न भवति" जै०वि०प० । ४. विदेहे [ षु न ? ] पुनरन्यत्र क । ५. दोसूद्ध० क । ६. ०तट्टे य घ ङ । ७. → ← एतच्चिह्नान्तर्गतः पाठः खपुस्तके नास्ति । ८. ०स्वयम्भूर० ङ च । ९. ऊर्द्धा ऽधो० क विना । १०. ' ताट = थालो' इति भाषायाम् ०तट्टे घ ङ । ११. ०स्थानके च । १२. च इति ख-गप्रत्योर्न विद्यते । १३. ० रूर्द्ध ० क विना । १४. समुपहता ख । १५. पर्याप्ता प० ग च । १६. ०न द्विधा के घ ङ ।