SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १०२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे उक्तस्तृतीयोद्देशक: साम्प्रतं चतुर्थ आख्यायते । अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके मुनित्वप्रतिपत्तयेऽप्कायः प्रतिपादितः, तद् अधुना तदर्थमेव क्र मायाततेजस्कायप्रतिपादनायायमुद्देशकः समारभ्यते । तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि तावद् यावद् नामनिष्पन्ने निक्षेपे 5 तेजउद्देशक इति नाम । तत्र तेजसो निक्षेपादीनि द्वाराणि वाच्यानि । अत्र च पृथिवीविकल्पतुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणाम्, अपरेषां तद्विलक्षणत्वाद् अपोद्धार इत्येतद् द्वयमुररीकृत्य नियुक्तिकृद् गाथामाह तेउस्स वि दाराई ताई जाइं हवंति पुढवीए । णाणत्ती उ विहाणे परिमाणुवभोग सत्थे य ॥११६॥ 10 तेउस्स वीत्यादि । तेजसोऽपि अग्नेरपि द्वाराणि निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि । अपवादं दर्शयितुमाहनानात्वं भेदो विधान-परिमाण-उपभोग-शस्त्रेषु । तुः अवधारणे विधानादिष्वेव नानात्वम्, नान्यत्रेति । चशब्दाद् लक्षणद्वारपरिग्रहः ॥११६।। यथाप्रति ज्ञातनिर्वहणार्थमादिद्वारव्याचिख्यासयाऽऽह15 दुविहा उ तेउजीवा सुहुमा तह बायरा य लोयम्मि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ॥११७॥ दुविहेत्यादि । स्पष्टा ॥११७॥ बादरपञ्चभेदप्रतिपादनायाहइंगाल अगणि अच्ची जाला तह मुम्मुरे य बोधव्वे । बायरतेउविहाणा पंचविहा वणिया एए ॥११८॥ द्वारं ॥ 20 इंगालेत्यादि । दग्धेन्धनो विगतधूमज्वालः अङ्गार: इन्धनस्थप्लोषक्रियाविष्टरूपः, तथा विद्युद्-उल्का-ऽशनि-सङ्घर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्च अग्निः, दाह्यप्रतिबद्धो ज्वालाविशेषः अर्चिः, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा १. आरभ्यते कप्रति विना ।, २. व छ । ३. ए(य) ख । ४. समभिगमे ख । ५. विभेदो घ ङ च । ६. य क-ठवर्जितप्रतिषु । ७. इन्धनस्थः क-खप्रती विना । ८. ०ला नागार० क । ९. ०रा अग्नि० ख च विना ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy