________________
१०१
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । तृतीय उद्देशकः आरंभा परिणाया भवंति ।
[सू०३०] तं परिणाय मेहावी व सयं उदयसत्थं समारभेज्जा, णेवण्णेहिं उदयसत्थं समारभावेज्जा, उदयसत्थं समारभंते वि अण्णे ण समणुजाणेज्जा । ____ [सू०३१ ] जस्सेते उदयसत्थसमारंभा परिणाया 5 भवंति से हु मुणी परिणातकम्मे त्ति बेमि ।। ___एत्थ सत्थमित्यादि यावत् से हु मुणी परिण्णायकम्मे त्ति बेमि । एतस्मिन् अप्काये शस्त्रं द्रव्य-भावरूपं समारभमाणस्येत्येते समारम्भा बन्धकारणत्वेनाऽपरिज्ञाता भवन्ति । अत्रैव अप्काये शस्त्रमसमारभमाणस्येत्येते आरम्भा ज्ञपरिज्ञ या परिज्ञाता भवन्ति, प्रत्याख्यानपरिज्ञया च परिहता भवन्ति । 10 तामेव प्रत्याख्यानपरिज्ञां विशेषतो ज्ञपरिज्ञापूर्विकां दर्शयति-तद् उदकारम्भणं बन्धाय इत्येवं परिज्ञाय मेधावी मर्यादाव्यवस्थितो नैव स्वयमुदकशस्त्रं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, नैवान्यानुदकशस्त्रं समारभमाणान् समनुजानीयात् । यस्यैते उदकशस्त्रसमारम्भा द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति । ब्रवीमीति पूर्ववदिति ।
शस्त्रपरिज्ञायां तृतीयोद्देशकः समाप्तः ॥३॥
.
15
१. समारम्भा वध-बन्ध० च । २. ०या ज्ञाता भवन्ति क घ ङ। ३. शस्त्रपरिज्ञायास्तृतीयोद्देशकः परिसमाप्तः ।। च ।