________________
१०० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे ऽकर्तृको वा । ततश्चैवमभ्युपगते यो येन प्रतिपन्न आप्तः स निराकर्तव्यःअनाप्तोऽसौ, अप्कायजीवाऽपरिज्ञानात् तद्वधानुज्ञानाद्वा, भवानिव । जीवत्वं चापां प्राक् प्रसाधितमेव, ततस्तत्प्रणीतागमोऽपि सद्धर्मचोदनायामप्रमाणम्, अनाप्त
प्रणीतत्वाद् रथ्यापुरुषवाक्यवत् । अथ नित्योऽकर्तृकः समयोऽभ्युपगम्यते ततो 5 नित्यत्वं दुष्प्रतिपादम्, यतः शक्यते वक्तुम्-भवदभ्युपगतः समयः सकर्तृको
वर्ण-पद-वाक्यात्मकत्वाद्, विधि-प्रतिषेधात्मकत्वाद्, उभयसम्मतसकर्तृकग्रन्थसन्दर्भवदिति । अभ्युपगम्य वा ब्रूमः-अप्रमाणमसौ, नित्यत्वाद्, आकाशवत् । यच्च प्रमाणं तदनित्यं दृष्टं प्रत्यक्षादिवदिति । तथा विभूषासूत्रावयवेऽपि
पृष्टा न प्रत्युत्तरदाने क्षमाः । यतियोग्यं स्नानं न भवति, कामाङ्गत्वात्, मण्डनवत् । 10 कामाङ्गता च सर्वजनप्रसिद्धा, तथा चोक्तम्
स्नानं मद-दर्पकरं, कामाकं प्रथमं स्मृतम् । तस्मात् कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥ [ ]
शौचार्थोऽपि न पुष्कलः, वारिणा बाह्यमलापनयनमात्रत्वात्, न ह्यन्तर्व्यवस्थितकर्ममलक्षालनसमर्थं वारि दृष्टम् । तस्मात् शरीर-वाङ्15 मनसामकुशलप्रवृत्तिनिरोधो भावशौचमेव कर्मक्षयायालम् । तच्च वारिसाध्यं न
भवति, कुतः? अन्वय-व्यतिरेकसमधिगम्यत्वात् सर्वभावानाम्, न हि मत्स्यादयस्तत्र स्थिता मत्स्यादित्वकर्मक्षयभाक्त्वेनाभ्युपगम्यन्ते, विना च वारिणा महर्षयो विचित्रतपोभिः कर्म क्षपयन्तीति । अतः स्थितमेतत्-तत्समयो न
निश्चयाय प्रभवतीति ॥ तदेवं नि:सपत्नमपां जीवत्वं प्रतिपाद्य तत्प्रवृत्ति20 निवृत्तिविकल्पफलप्रदर्शनद्वारेणोपसजिहीर्षुः सकलमुद्देशार्थमाह
[ सू०२९] एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते
१. ०मभ्युपगमने घ ङ । २. "सूत्रावयवे इति कप्पय णे इत्यादि" जै०वि०प० । ३. सर्वजनसिद्धा ख, सर्वजनसिद्धा उक्तं च च । ४. "पुष्कलः इति मुक्कलः'' जै०वि०प० । ५. ०मलप्रक्षालन० घ ङ च । ६. स्थिताः कर्मक्षयभावेनाभ्युप० ग च । ७. अतः इति खपुस्तके नास्ति, अवस्थितमेतत् च । ८. नो ग ।