________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । तृतीय उद्देशकः
९९
अभ्यवहर्तुमिति । वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहि—आजीविक-भस्मस्नाय्यादयो वदन्ति पातुमस्माकं कल्पते, न स्नातुं वारिणा, शाक्य - परिव्राजकादयस्तु स्नान - पाना - ऽवगाहनादि सर्वं कल्पते इति भाषन्ते । एतदेव स्वनामग्राहं दर्शयति – अथवोदकं विभूषार्थमनुज्ञातं नः समये । विभूषा च कर-चरण-पायु - उपस्थ- मुखप्रक्षालनादिका वस्त्र - भण्डकादि - 5 प्रक्षालनात्मिका वा । एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्चिद्दोष इति ॥
एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीन् विमोह्य किं कुर्वन्ति ? इत्याह- पुढो सत्थेहिं विउति । पृथग् विभिन्नलक्षणैर्नानारूपैः उत्सेचनादिशस्त्रैस्तेऽनगारायमाणाः विउट्टंति त्ति अप्कायजीवान् जीवनाद् व्यावर्तयन्ति व्यपरोपयन्तीत्यर्थः । यदि वा पृथग् विभिन्नैः शस्त्रै - 10 रप्कायिकान् विविधं कुट्टन्ति छिन्दन्तीत्यर्थः, कुट्टेः छेदनार्थत्वात् ॥ अधुनैषामागमानुसारिणामागमासारत्वप्रेतिपादनायाह
[सू०२८ ] एत्थ वि तेसिं णो णिकरणाए ।
एैतस्मिन्नपि प्रस्तुते स्वागमानुसारेणाभ्युपगमे सँति 'कप्पइ णे कप्पड़ पाउं अदुवा विभूसाए 'त्ति एवंरूपे, तेषामयमागमो यद्वलादप्कायपरिभोगे ते 15 प्रवृत्ताः स स्याद्वादयुक्तिभिरभ्याहतः सन् नो निकरणाए त्ति नो निश्चयं कर्तुं समर्थो भवति । न केवलं तेषां युक्तयो न निश्चयायालम्, अपि त्वागमोऽपीति अपिशब्दः । कथं पुनस्तदागमो निश्चयाय नालमिति ? अत्रोच्यते - ते एवं प्रष्टव्याः कोऽयमागमो नाम यदादेशात् कल्पते भवतामप्कायारम्भः ? ते आहुःप्रतिविशिष्टानुपूर्वीविन्यस्तवर्ण-पद-वाक्यसङ्घात आप्तप्रणीत आगमो नित्यो- 20
१. उपभोगोऽनुज्ञातो घ । २. प्रभाषन्ते क - घआदशां ऋते । ३. चूर्णिकृद्भिस्त्वेतदतिरिक्तः सम्प्रदायान्तराचीर्णो जलोपयोगविधिरुल्लिखित:, तद्यथा - केसिंचि परिपूतं, केसिंचि अपरिपूतं, केसिंचि परिमियं, केसिंचि अपरिमियमिति । ४. कुट्टेर्धातोः छेदनार्थत्वात् क- घप्रती ऋते । ५. ० प्रतिपादनार्थमाह ख । ६. 'एत्थ वि तेसिं णो णितरणा' इति चूर्णौ । ७. सति इति ख-चपुस्तकयोर्न वर्तते । ८. पायुं च । ९. विभूसणाए त्ति च विहूसाए त्ति ग । १०. एवंरूपः तेषा० ख ।