SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ९८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे प्राणातिपातः, अपि त्वदत्तादानमपि तत् तेषाम्, यतो यैरप्कायजन्तुभिर्यानि शरीराणि निर्वतितानि तैरदत्तानि ते तान्युपभुञ्जते । यथा कश्चित् पुमान् सचित्तशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृह्णीयाद्, अदत्तं हि तस्य तत्, परपरिगृहीतत्वात् परकीयगवाद्यादानवत्, एवं तानि शरीराण्यब्जीवगृहीतानि 5 गृह्णतोऽदत्तादानमवश्यम्भावि स्वाम्यनुज्ञानाभावादिति । ननु यस्य तत् तडाग कूपादि तेनानुज्ञातं सकृत् तत्पय इति, ततश्च नादत्तादानम्, स्वामिनाऽनुज्ञातत्वात् परानुज्ञातपश्वादिघातवत् ? नन्वेतदपि साध्यावस्थमेवोपन्यस्तम्, यतः पशुरपि शरीरप्रदानविमुख एव भिन्नार्यमर्यादैरुच्चैरारटन् विशस्यते, ततश्च कथमिव नादत्तादानं स्यात् ? न चान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्तायाम् । 10 नन्वेवमशेषलोकप्रसिद्धगोदानादिव्यवहारस्त्रुट्यति ? त्रुट्यतु नामैवंविधपाप सम्बन्धः, तद् हि देयं यद् दुःखितं स्वयं न भवति, दासी-बलीवर्दादिवत्, न चान्येषां दुःखोत्पत्तेः कारणं हल-खड्गादिवत् । एतद्व्यतिरिक्तं दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते जिनेन्द्रमतावलम्बिनः, उक्तं च यत् स्वयमदुःखितं स्याद्, न च परदुःखे निमित्तभूतमपि । 15 केवलमुपग्रहकरं, धर्मकृते तद् भवेद्देयम् ॥ [ ] इति ॥ तस्माद् अवस्थितमेतत् तेषां तद् अदत्तादानमपीति ॥ साम्प्रतमेतद् दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीर्षुराह [सू०२७] कप्पइ णे कप्पइ णे पातुं, अदुवा विभूसाए । पुढो सत्थेहिं विउद॒ति । 20 कप्पइ णे कप्पइ णे पाउं अदुवा विभूसाए । अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्त एवमाहुः, यथा-नैतत् स्वमनीषिकातः समारम्भयामो वयम्, किन्तु आगमे निर्जीवत्वेनानिषिद्धत्वात् कल्पते युज्यते नः अस्माकं पातुम् १. ०वपरिगृहीतानि घ ङ च । २. ०नुज्ञाभावादिति च । ३. ०वत् ? इति । नन्वेतदपि ख च । ४. "बलीवद्द(द) इति वैधयंदृष्टान्तः'' जै०वि०प० । ५. जिनेन्द्रवचनावलम्बिनः ख च । ६. धर्मकृते भवति तद् देयम् ख । ७. परः इति नोपलभ्यते कसंज्ञकादर्श ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy