________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । तृतीय उद्देशकः चित्तमिति व्यवहरति जलम्, न पुनर्निरिन्धनमेवेति ।
अतो यद् बाह्यशस्त्रसम्पर्कात् परिणामान्तरापन्नं वर्णादिभिस्तद् अचित्तं साधुपरिभोगाय कल्पते । किं पुनस्तत् शस्त्रम् ? इत्यत आह-सत्थं चेत्थ अणुवीयी पासेत्यादि । शस्यन्ते हिंस्यन्तेऽनेन प्राणिन इति शस्त्रम् । तच्चोत्सेचन-गालन-उपकरणधावनादि स्वकायादि च । वर्णाद्यापत्तयो वा 5 पूर्वावस्थाविलक्षणाः शस्त्रम्, तथाहि-अग्निपुद्गलानुगतत्वाद् ईषत्पिङ्गलं जलं भवत्युष्णम्, गन्धतोऽपि धूमगन्धि, रसतो विरसम्, स्पर्शत उष्णम् तच्चोवृत्तत्रिदण्डम् । एवंविधावस्थं यदि ततः कल्पते, नान्यथा । तथा कचवरगोकरीष-मूत्र-ऊषादीन्धनसम्बन्धात् स्तोक-मध्य-बहुभेदात्, स्तोकं स्तोके प्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या । एवमेतत् त्रिविधं शस्त्रम् । 10 चशब्दोऽवधारणार्थ:-अन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राह्यम्, नान्यथेति । एत्थ त्ति एतस्मिन् अप्काये प्रस्तुते अनुविचिन्त्य विचार्य इदमस्य शस्त्रमित्येवं ग्राह्यम् । पश्य इत्यनेन शिष्यस्य चोदनेति । तदेवं नानाविधं शस्त्रमप्कायस्यास्तीति प्रतिपादितम् । एतदेव दर्शयति-पुढो सत्थं पवेदितं पृथक विभिन्नमुत्सेचनादिकं शस्त्रं प्रवेदितम् आख्यातं भगवता । पाठान्तरं वा- 15 पुढोऽपासं पवेदितं एवं पृथक् विभिन्नलक्षणेन शस्त्रेण परिणामितमुदकग्रहणमपाशं प्रवेदितम् आख्यातं भगवता, अपाशः अबन्धनम्, शस्त्रपरिणामितोदकग्रहणमबन्धनमाख्यातमिति यावत् ।
___ एवं तावत् साधूनां सचित्त-मिश्राप्कायपरित्यागेनाचित्तपयसा परिभोगः प्रतिपादितः । ये पुनः शाक्यादयोऽप्कायोपभोगप्रवृत्तास्ते नियमत एवाप्कायं 20 विहिंसन्ति, तदाश्रितांश्चान्यानिति । तत्र न केवलं प्राणातिपातापत्तिरेव तेषाम्, किमन्यत् ? इत्यत आह-अदुवा अदिन्नादाणं ति । अथवा इति पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः, अशस्त्रोपहताप्कायोपभोगकारिणां न केवलं
१. परिकल्पते च । २. अणुवीइ घ ङ अणुवीति च, अणुवीई ग, अणुवीइ पास इत्यादि ख । ३. ०त्तदण्डम् क ख ग । ४. एवमेतदेव ङ । ५. अत्र चूर्णिकृत्पादा इत्थं प्रतिपादयन्ति-पुढो सत्थं पवेदितं ति बहूणि आउक्कायसत्थाणि भगवता पवेदिताणि । ६. ०भोगपरिवृत्ता( ता )स्ते ङ । ७. अदिन्नदाणं क ग च ।