________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे शक्यमभ्युपगन्तुम् ? इत्यत आह-संति पाणा इत्यादि पूर्ववत् । कियन्तः पुनस्ते? इति दर्शयति-जीवा अणेगा पुनर् 'जीवो' पादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थम् । ततश्चेदमुक्तं भवति–एकैकस्मिन् जीवभेदे उदकाश्रिता
अनेके असङ्ख्येयाः प्राणिनो भवन्ति । एवं चाब्विषयारम्भभाजः पुरुषास्तन्नि5 श्रितप्रभूतसत्त्वव्यापत्तिकारिणो द्रष्टव्याः । शाक्यादयस्तूदकाश्रितानेव
द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति-खलुशब्दोऽवधारणे इहैव ज्ञातपुत्रीये प्रवचने द्वादशाङ्गगणिपिटके अनगाराणां साधूनाम् उदकं जीवाः उदकरूपा जीवाः चशब्दात् तदाश्रिताश्च पूतरक-छेदनक-लोद्दणक-भ्रमरक
मत्स्यादयो जीवा व्याख्याताः । अवधारणफलं च नान्येषामुदकरूपा जीवाः 10 प्रतिपादिताः ।
यद्येवमुदकमेव जीवाः, ततोऽवश्यं तत्परिभोगे सति प्राणातिपातभाज: साधव इति ? अत्रोच्यते-नैतदेवम्, यतो वयं त्रिविधमप्कायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च, तत्र योऽचित्तोऽप्कायस्तेनोपयोगविधिः साधूनाम्, नेतराभ्याम् ।
कथं पुनरसौ भवत्यचित्तः ?, किं स्वभावादेव ?, आहोश्वित् शस्त्रसम्बन्धात् ? 15 उभयथाऽपीति । तत्र यः स्वभावादेवाचित्तीभवति न बाह्यशस्त्रसम्बन्धात् तमचित्तं
जानाना अपि केवल-मन:पर्याया-ऽवधि-श्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो नु श्रूयते
भंगवता किल श्रीवर्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गः शैवलपटल-त्रसादिरहितो महाहृदो व्यपगताऽशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः 20 स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथाऽचित्ततिलशकटस्थण्डिल
परिभोगानुज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थं च, तथाहि-सामान्य श्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवा
१. द्वादशाङ्गे गणि० कपुस्तकेन विना । २. उदकजीवाः क । ३. ०लोट्टणक० ख, ०लोडणक० ग, ०लोडणक० घ ङ, ०लोडणक० च । ४. भ्रमर-मत्स्या० क ख । ५. स्वभावात ? अहो० कप्रत्या विना । ६. बाह्यशस्त्रसम्पर्कात ख च, बाह्यशस्त्रसम्बन्धत्वात् घ ङ । ७. यतोऽनुश्रूयते ख, यते न श्रूयते ग । ८. भगवन्तः घ, भगवता श्रीवर्ध० च । ९. ०स्वामिनो घ।