________________
10
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । तृतीय उद्देशकः इच्चत्थं गढिए लोए, जमिणं विरूवरूवेहिं सत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति । ____तत्र खलु भगवता परिज्ञा प्रवेदिता, यथा-अस्यैव जीवितव्यस्य परिवन्दन-मानन-पूजनार्थं जाति-मरण-मोचनार्थं दुःखप्रतिघातहेतुं यत् करोति 5 तद् दर्शयति–स स्वयमेवोदकशस्त्रं समारभते, अन्यैश्चोदकशस्त्रं समारम्भयति, अन्यांश्चोदकशस्त्रं समारभमाणान् समनुजानीते । तच्चोदकसमारम्भणं तस्याहिताय भवति, तथा तदेवाबोधिलाभाय भवति । स एतत् सम्बुध्यमान आदानीयं सम्यग्दर्शनादि सम्यगुत्थाय अभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वाऽन्तिके इहैकेषां साधूनां यद् ज्ञातं भवति तद् दर्शयति
एषः अप्कायसमारम्भो ग्रन्थः, एष खलु मोहः, एष खलु मारः, एष खलु नरकः । इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैरुदककर्मसमारम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्तीति एतत् प्राग्वद् व्याख्येयम् । पुनरप्याह
[सू०२६] से बेमि-संति पाणा उदयणिस्सिया जीवा 15 अणेगा । इहं च खलु भो अणगाराणं उदयं जीवा वियाहिया । सत्थं चेत्थ अणुवीयि पास । पुढो सत्थं पवेदितं । अदुवा अदिण्णादाणं ।
से बेमीत्यादि । सेशब्द आत्मनिर्देशे । सः अहमेवमुपलब्धानेकाप्काय- 20 तत्त्ववृत्तान्तो ब्रवीमि-संति पाणा विद्यन्ते प्राणिनः उदकनिश्रिताः पूतरकमत्स्यादयो यानुदकारम्भप्रवृत्तो हन्यादिति । अथवाऽपरः सम्बन्धः-प्रागुक्तमुदकशस्त्रं समारभमाणोऽन्यानप्यनेकरूपान् जन्तून् विविधं हिनस्तीति । तत् कथमेतत्
१. यतो क घ ङ । २. एतत् प्रगृह्याख्येयम् ख । ३. पाणा इति कप्रति परित्यज्य नान्यत्रास्ति । ४. उदकमिश्रिताः क ग । ५. ०ननेकरूपान् ख । ६. प्राणिनो ख ।