SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ९४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे लज्जमाणेत्यादि । लज्जमानाः स्वकीयं प्रव्रज्याभासं कुर्वाणाः, यदि वा सावधानुष्ठानेन लज्जमानाः लज्जां कुर्वाणाः । पृथग विभिन्नाः शाक्यकणभुक्-कपिलादिशिष्याः । पश्य इति शिष्यचोदना । अविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा-पश्य मृगो धावति, द्वितीयार्थे वा प्रथमा 5 सुब्व्यत्ययेन द्रष्टव्या, ततश्चायमर्थः-शाक्यादीन् गृहीतप्रव्रज्यानपि सावद्या नुष्ठानरतान् पृथग् विभिन्नान् पश्य । ___किं तैरसदाचरितं येनैवं प्रदर्श्यन्ते ? इति दर्शयति-अनगारा वयम् इति एके शाक्यादयः प्रवदन्तः यदिदं यदेतत् काक्वा दर्शयति–विरूपरूपैः उत्सेचना-ऽग्निविध्यापनादिशस्त्रैः स्वकाय-परकायभेदभिन्नैः उदककर्म 10 समारभन्ते । उदककर्मसमारम्भेण च उदके शस्त्रं उदकमेव वा शस्त्रं समारभन्ते। तच्च समारभमाणो अनेकरूपान् वनस्पति-द्वीन्द्रियादीन् विविधं हिनस्ति । [सू०२४] तत्थ खलु भगवता परिण्णा पवेदिताइमस्स चेव जीवितस्स परिवंदण-माणण-पूयणाए जाती मरण-मोयणाए दुक्खपडिघातहेतुं से सयमेव उदयसत्थं 15 समारभति, अण्णेहिं वा उदयसत्थं समारभावेति, अण्णे वा उदयसत्थं समारभंते समणुजाणति । तं से अहिताए तं से अबोधीए । [सू०२५] से त्तं संबुज्झमाणे आयाणीयं समुट्ठाए सोच्चा भगवतो अणगाराणं इहमेगेसिं णातं भवति-एस 20 खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए । १. पृथग् इति भिन्नाः क । २. शाक्य-उलूक-कणभुक्० ग च, शाक्यऔलौ( ल क्य-कणभक० ङ। ३. धावतीति द्विती० च । ४. प्रदर्श्यते ङ च । ५. समारभते क । ६. समारभते क, समारम्भयन्ति ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy