________________
९३
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । तृतीय उद्देशकः हेतुभिरधिष्ठातात्मा व्यतिरिक्तः प्राक् प्रसाधितः एवमप्कायोऽप्यव्यक्तचेतनया सचेतन इति प्राक् प्रसाधितः, न च प्रसाधितस्याभ्याख्यानं न्याय्यम् ।
अथापि स्यात्-'आत्मनोऽपि शरीराधिष्ठातुरभ्याख्यानं कर्तव्यम्', न च तत् क्रियमाणं घटामियर्तीति दर्शयति-नेव अत्ताणं अब्भाइक्खेज्ज, नैव आत्मानं शरीराधिष्ठातारमहम्प्रत्ययसिद्धं ज्ञानाभिन्नगुणप्रत्यक्षं प्रत्याचक्षीत 5 अपहृवीत । ननु चैतदेव कथमवसीयते शरीराधिष्ठाताऽऽत्माऽस्तीति ? उच्यतेविस्मरणशीलो देवानाम्प्रिय उक्तमपि भाणयति, तथाहि-आहृतमिदं शरीरं केनचिद् अभिसन्धिमता, कफ-रुधिरा-ऽङ्गोपाङ्गादिपरिणतेः, अन्नादिवत्, तथोत्सृष्टमपि केनचिदभिसन्धिमतैव, आहृतत्वात्, अन्नमलवदिति, तथा न ज्ञानोपलब्धिपूर्वकः परिस्पन्दो भ्रान्तिरूपः, परिस्पन्दत्वात्, त्वदीयवचन- 10 परिस्पन्दवत्, तथा विद्यमानाधिष्ठातृव्यापारभाञ्जीन्द्रियाणि, करणत्वात्, दात्रादिवत् । एवं कुतर्कमार्गानुसारिहेतुमालोच्छेदः स्याद्वादपरशुना कार्यः । अत एवंविधोपपत्तिसमधिगतमात्मानं शुभा-ऽशुभफलभाजं न प्रत्याचक्षीत । एवं च सति यो ह्यज्ञः कुतर्कतिमिरोपहतज्ञानचक्षुरप्कायलोकम् अभ्याख्याति प्रत्याचष्टे स सर्वप्रमाणसिद्धमात्मानमभ्याख्याति, यश्चात्मानम् अभ्याख्याति-नास्म्यहम्, स 5 सामर्थ्याद् अप्कायलोकमभ्याख्याति, यतो ह्यात्मनि पाण्याद्यवयवोपेतशरीराधिष्ठायिनि प्रस्पष्टलिङ्गेऽभ्याख्याते सति अव्यक्तचेतनालिङ्गोऽप्कायलोकस्तेन सुतरामभ्याख्यातः । एवमनेकदोषोपपत्तिं विदित्वा नायमप्कायलोकोऽभ्याख्यातव्य इत्यालोच्य साधवो नाप्कायविषयमारम्भं कुर्वन्तीति ॥ शाक्यादयस्त्वन्यथोपस्थिता इति दर्शयितुमाह
20 [सू०२३ ] लज्जमाणा पुढो पास । 'अणगारा मो' त्ति एगे पवयमाणा, जमिणं विरूवरूवेहिंसत्थेहिं उदयकम्मसमारंभेणं उदयसत्थं समारंभमाणे अण्णे वऽणेगरूवे पाणे विहिंसति ।
१. प्राक् साधितः ख । २. ०इक्खेज्जा क-घप्रती विना । ३. नात्मानं घ ङ । ४. अपहनुयात् क घ ङ । ५. दन्तमलवदिति च । ६. ०याणीति करण० ख-चपुस्तके ऋते ।